________________
शान्तिनाथचरित्रम् ॥ ११६॥
पंचम: प्रस्ताव
" er
दत्तोऽप्यासनमेतस्मै ससम्भ्रममदापयत् । ततस्तत्रोपविष्टाय ताम्बूलं प्रददौ स्वयम् पृच्छति स्माऽऽदरेणैवं वत्स! त्वं कुत आगतः। सोऽथाज्ञादीदुज्जयिन्याः कारणेनाऽहमागतः॥ ५८०॥ एवं यात्रजजल्पाऽसौ कुमारः श्रेष्ठिना सह । तत्रैकस्तावदायातः पुमान् शृङ्गारशोभितः ॥५८१॥ विमनस्कममुं दृष्ट्वा कुमारः श्रेष्ठिनं प्रति । जगाद किमयं तात ! विच्छायो दृश्यते पुमान् ? ॥ ५८२ ॥ ततो दीर्घ विनिःश्वस्य श्रेष्ठयूचे तव सुन्दर ! । अत्यन्तगोपनीयोऽपि वृत्तान्तोऽयं निवेद्यते ॥ ५८३ ॥ अस्ति मे तनया तस्या रात्रौ यो यामिको भवेत् । अतिप्रचण्डदोषेण सोऽत्रश्यं वत्स! हन्यते ॥ ५८४ ॥ बभूव पुरुषस्याऽस्य यामिकत्वेऽद्य वारकः । तेनाऽयं विमना मृत्योः कस्य वा न भयं भवेत् ॥ ५८५॥ वत्सराजस्ततोऽवादीत तिष्ठत्वेष यथासुखम् । अहमद्य भविष्यामि तस्याः प्राहरिको निशि ॥५८६॥ श्रेष्ठी जगाद वत्स ! त्वमद्य प्राघुर्णको मम। भुक्तं चनत्यया किश्चित् किमङ्गीकुरुषे मृतिम् ? ॥ ५८७॥ वत्सराजोऽवदतु तात ! कार्यमेतन्मया ध्रुवम् । परोपकाररसिकर्यदिदं पठ्यते बुधैः ॥५८८॥ कृतोपकारः सर्वोऽपि करोत्युपकृति जनः । विनोपकारं यत्राता विपदः सोञ सज्जनः ॥५८९ ॥ आवासस्योपरितनभूमौ सोऽथ कुमारकः । आरोहति स्म यत्राऽऽसीत् श्रीदत्तश्रेष्ठिनः सुता ॥ ५९० ॥ साऽपि दध्यौ विलोक्यैनमहो ! रूपमहो ! प्रभा । शरीरं पुरुषस्याऽस्य किं तद्यन्न मनोहरम् ॥ ५९१ ॥ हा दैव ! निर्मिताऽहं तु नारी मारीव किं त्वया । ईदृग्मनुष्यरत्नानां जीवितान्वविधायिनी ॥ ५९२ ॥
॥११॥