________________
तुङ्गप्राकारमद्राक्षीत् तत्रैकं लघुपत्तनम् । विलोक्य विजनं तच्च वत्सराजो व्यचिन्तयत् ॥५६५॥ किमिदं हन्त ! भूतानां पुरंवायक्षरक्षसाम् । अनया चिन्तया किंवा प्रविश्यालोकयाम्यहम् ॥ ५६६ ॥ प्रविशश्च ददर्शाऽसौ तन्मध्ये तुङ्गमन्दिरम् । तत्पार्चे लघुगेहानि ततस्तत्र विवेश सः ॥५६७॥ दृष्ट्वाऽऽसनोपविष्टं च तत्रैकं पुरुषं वरम् । परिवारनरं तस्य वत्सः पप्रच्छ कञ्चन ॥५६८॥ किनामेदं पुरं भद्र ! किनामाऽयं महीपतिः । सोऽवादीद् नगरं नैतद् न चायं पृथिवीपतिः॥ ५६९ ।। किन्त्वितो नातिदूरेऽस्ति पुरं भूतिलकाभिधम् । वैरसिंहो नृपस्तत्र श्रेष्ठी दत्ताभिधस्तथा ॥ ५७०॥ श्रीदेवीनामधेयाया भार्यायाः कुक्षिसम्भवा । रूपलावण्यसंयुक्ता श्रीदत्ता तस्य नन्दिनी ॥ ५७१ ॥ साऽभवद् यौवनप्राप्ता दोपग्रस्तशरीरका । तस्याः प्राहरिको रात्रौ यो भवेद् म्रियते हि सः ॥ ५७२ ।। यदि प्राहरिको नास्या भवेत् तत्सह पूरुपाः । विपद्यन्ते ततो राज्ञा स श्रेष्ठयेवं प्रजल्पितः ॥ ५७३ ॥ श्रेष्ठिन् ! त्वं नगरं मुक्त्वा गच्छाष्टव्यांममाऽऽज्ञया। त्वत्सुतादोषजनितः किल लोकक्षयोऽस्तु मा॥५७४॥ सोऽयं श्रेष्ठी समेतोऽत्र स्वपरीवारसंयुतः । चक्रे च चौररक्षार्थ सप्राकारमिदं गृहम् ॥५७५ ॥ अनेन गोलकाबद्धाः कृता यामिकपूरुपाः । प्रभूतधनलोभेन ते च सन्त्यस्य सन्निधौ ॥५७६ ॥ तेषां मध्यादथैकैको म्रियते च दिने दिने । तान मुक्त्वा नापरः कश्चिदिह स्थाने वसत्यहो।॥ ५७७॥ ततस्त्वमपि हे पान्थ ! याह्यन्यत्र बिभेपि चेत् । इति श्रुत्वा कुमारोऽपि ययौदत्तस्य सन्निधौ॥ ५७८ ।।