________________
प्रासादमर्पयित्वैकं सामग्रीसंयुतं तयोः । ऊचे राजा कुमारं तं वत्स ! कि ते ददाम्यहम् ॥५१०॥ सोऽवदन्नापरं याचे सेवां कर्तास्मि ते सदा । दिनावसाने गेहे तु प्रेषितव्यः स्वयं त्वया ॥५११॥ प्रतिपन्नमिदं राज्ञा सेवां तस्य चकार सः । चक्रे च तद्गृहं सुस्थं राजा धान्यादिवस्तुमिः ॥५१२ ॥ अन्यदा मेदिनीपालः कथमप्यविसृज्य तम् । सुप्तो वासगृहे तच्च यामिकैः परिवेष्टितम् ॥५१३॥ वत्सराजकुमारोऽपि खड्गव्यग्रकरो बहिः । तस्थौ वासगृहस्याऽस्य विनीतो वरभृत्यवत् ॥५१४ ॥ निशीथसमये जाते शुश्राव करुणस्वरम् । कस्याश्चिदतिदुःखिन्याः कामिन्या रुदितं नृपः ॥५१५॥ आभाषितास्ततस्तेन सर्वे प्राहरिका नराः। ते तु प्रमाददोषेण सुप्ता नो ददिरे वचः ॥५१६॥ वत्सराजोऽवदत स्वामिन ! कार्यमादिश्यतां मम। राजोचे किमया नाद्य विसृष्टोऽसि महाशय! ॥ ५१७॥ आमेति भणिते तेन सोऽब्रवीदधुनाऽपि हि । विसृष्टोऽसि गृहं याहि प्रेष्यत्वं तव नोचितम् ॥ ५१८॥ सोऽवदत् त्वत्समादेशं कुर्वतः का ममत्रपा? अवश्यं तं करिष्यामि कार्यमादिश्यतां प्रभो। ॥ ५१९॥ राजोचे तर्हि गत्वा त्वं पृष्ट्वा दुःखस्य कारणम् । वत्सैनां कामिनी दीनां रुदती प्रतिषेधय ॥५२०॥ सोऽथ शब्दानुसारेण कृत्वा प्राकारलचनम् । मध्यभागे श्मशानस्य ययौ सत्त्वसमन्वितः ॥५२१ । तत्रैकदेशे मद्वस्त्रालङ्कारपरिशोभिताम् । विलोक्य ललनामेका रुदतीमित्यभाषत
॥५२२॥ का त्वं मुग्धे कथं चात्र श्मशाने हन्त ! रोदिपिन चेद्गोप्यं तदाख्याहि निजं दुःखस्य कारणम् ॥५२३॥