SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ - अस्य देवकुलस्यान्तणूढः कोऽप्यस्ति पूरुषः । कूर्यासहर्ता तदमुं भीषयावः कथञ्चन ॥४५७ ॥ इत्यूचतुश्च मध्यात्त्वमरे! मानुष ! निस्सर । मुश्च नौ कञ्चुकं नो चेद्धरिष्यावः शिरस्तव ॥४५८॥ एवमुक्तोऽप्यसौ ताभ्यां क्षत्रियत्वाद् विभाय न । उद्घाटयामासतुस्ते भिया यक्षस्य नाररी ॥ ४५९॥ मन्त्रयाश्चक्रतुश्चाऽपसृत्य ते योऽत्र कश्चन । उपितोऽभिजनस्तस्य रुदिष्यति पुरान्तरे ॥४६०॥ तत्र गत्वा ततश्चावां जानीवोऽस्याऽभिधादिकम् । मन्त्रयित्वेति खेचयों जग्मतुस्तत्र ते दुतम् ॥ ४६१॥ धारिणीक्मिले तावन्महादुःखाभिपीडिते । मुहुर्विलपतः स्मैवं स्मारं स्मारं स्वनन्दनम् ॥४६२॥ हा ! वीरसेनभूपालप्रसूत ! सुखलालित ! । वत्सराज ! कुमाराऽभूर्दशा कीदृशी तव ? ॥४६३ ॥ राज्यापहारः प्रथम देशान्तरगतिस्ततः । परवेश्मनिवासश्च तथा कप्टेन भोजनम् ॥४६४॥ हा वत्स ! प्रेषितोऽस्यद्य त्वमिन्धनकृते कथम् ? | आवकाभ्यामधन्याभ्यां यदद्याऽपि समेषिन॥ ४६५॥ तच्छ्रुत्वा ज्ञातवृत्तान्ते ते खेचावुपेयतुः । तत्र देवकुले मातृस्वरेणैवं जजल्पतुः ॥४६६॥ स्वद्वियोगार्दिते आवामिहायाते कथश्चन । हा वत्सराज वत्स ! त्वमात्मानं नौ प्रदर्शय ॥४६७ ॥ सोऽय दध्यौ जनन्योर्मे नाऽतिर्घटतेऽधुना। तन्नूनमेते ते एव खेचय्यौँ माययाऽऽवृते ॥४६८।। ध्यात्वेति प्रददौ धीमान वाइमात्रमपि नैतयोः। उदिते च खावेते खिन्ने स्वस्थानमीयतुः ॥ ४६९॥ १ अररी द्वारे ।
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy