SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ । तत्र दूरे समानाय सुगन्धं स व्यचिन्तयत् । नूनमत्र वने कापि विद्यते चन्दनद्रुमः ॥ ४३०॥ सम्यग् निरीक्षमाणेन यतोऽसौ सर्पवेष्टितः । दृष्टोऽथ साहसेनैते परिक्षिप्ता महोरगाः ॥ ४३१ ॥ पुरा यक्षवनमिति च्छिनो दुःसन केनचित् । चिच्छेद स तु तस्यैकशाखां साहससंयुतः॥ ४३२॥ विधाय काष्ठखण्डानि क्षिप्ला कावाकृतौ तथा । परितुष्टमनाः सोऽथ चचाल स्वगृहं प्रति ॥४३३ ॥ नगा यावदासन्नं स समेतस्तदाऽन्तरा । जगामास्तं रविः पुर्या द्वाराणि पिहितानि च ॥ ४३४॥ तस्यां पुर्यामय कल्पः शाकिनीनां भयेन यत् । उद्घाट्यन्ते गोपुराणि भानुमत्युदिते सति ॥ ४३५ ॥ वत्सराजस्ततो दध्यौ पुर्या वाह्यगृहेषु न । वसनीयं यतो गन्धः शक्यो रोढुं न चान्दनः ॥ ४३६ ॥ क गम्येयं मया रात्रिः शीते पतति दारुणे। ज्ञातं वा तत्र देवकुलिकायां व्रजाम्यहम् ॥ ४३७॥ इति ध्यात्वा द्रुतं तत्र गत्वा चैकत्र पादपे । कावाकृति चावलम्ब्याऽविशद्देवकुलान्तरे ॥ ४३८॥ तत्कपाटे पिधायाऽथ मुक्त्वा पार्श्व कुठारिकाम् । तत्रेकदेशे सुधाप निर्भयो वीरसेनजः ॥ ४३९ ।। अत्रान्तरे च संजातं रात्रिमध्ये यदद्भुतम् । वत्सस्य तस्थुपस्तत्र तदितः श्रूयतां जनाः। ॥ ४४०॥ अतिरम्यविमानस्थो चैताब्यवरपर्वतात् । समाययौ खेचरीणां सार्थोऽस्मिन् यक्षनन्दिरे ॥४४१॥ विहितस्फारशृङ्गारा गीतनृत्यसमुद्यताः । तद्वारामण्डपगता जल्लन्ति स्मेति ता मियः ॥४४२॥. चित्रलेखे! प्रवीणे! लं वीणां वादय सुन्दराम् । हले ! मदनिके ! तालावादनं पुनः कुरु ॥ ४४३ ॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy