________________
मन्त्र्यूचे वत्सराजोऽयं तिष्ठन्नत्र न ते हितः । पुरान्निस्यतां देव ! तत्कनिष्ठोऽप्यनिष्टकृत ॥ ३७६ ॥ ततश्च देवराजेन भूभुजा भणितोऽनुजः । गन्तव्यं त्वयकाऽन्यत्र मुक्त्वा मे विषयं पुनः ॥३७७॥ भ्रातुराज्ञांगृहीत्वातां जनन्याः सन्यवेदयत् । तच्छ्रत्वादुःखितासाऽपि वभूवाऽश्रुमुखी क्षणातू ।। ३७८ ॥ ज्ञात्वा तां दुःखितां वत्सराजोवादीत्किमम्बिके ! । एवं खेदं करोपि त्वं देह्यादेशं व्रजाम्यहम् ॥ ३७९ ॥ देवी प्रोवाच हे वत्स ! यद्येवं त्वयका सह । आगमिष्याम्यहमपि भगिन्या सहिता ध्रुवम् ॥३८॥ वत्सराजोनवीन्मातः ! स्थेयमत्रैव हि त्वया । यदन्यदेशो विपमो देवराजोऽपि ते सुतः ॥ ३८१॥ जनन्यूचे त्वयैवाहं सममेष्यामि वत्सक! । नार्थो मे देवराजेन यस्तवाऽप्यपकारकृत् ॥३८२ ॥ ततश्च देवराजेन राज्ञोदालितवाहना। चचाल धारिणी पादचारिणी सह मनुना ॥३८३॥ स हन्तव्यो मयावश्यं योऽनेन सह यास्यति । इत्युक्त्या वारितः सर्वः परिवारस्तु भूभुजा ॥ ३८४॥ ततश्चोच्छलितो लोकहाकारः सकले पुरेस कोऽपि नाभवत्तत्र येन नो रुदितं तदा ॥३८५॥ जजल्प च जनोऽद्यैतदनाथमभवत्पुरम् । सम्प्राप्तोऽद्यैव पञ्चत्वं वीरसेनो नरेश्वरः ॥३८६ ॥ परित्यक्ता वयमहो ! यदनेन महात्मना । इति लोकवचः शृण्वन् पुराद्वत्सो विनिययौ ॥३८७ ॥ ततः शनैः शनैर्मात्रा मातृष्वत्रा च संयुतः। सोज्वन्तिदेशमध्यस्थामियायोजयिनी पुरीम् ॥३८८॥ जितशत्रुनृपस्तस्यां यथार्थाख्यः पराक्रमी । बभूव कमलश्रीश्च तस्याग्रमहिषी घरा ॥३८९॥