________________
शान्तिनाथचरित्रम् ॥१०८॥
पंचमः प्रस्ताव
क्रमेण वर्धमानोऽसावष्टवर्षोऽखिलाः कलाः | अधीते स्म महाप्राज्ञः कलाचार्यस्य सन्निधौ ॥३६३ ॥ अन्यदा ज्वरदापा(हा)दिरोगग्रस्तशरीरकः । आयुष्पर्यन्तकालत्वाद्रभूव पृथिवीपतिः ॥३६४ ॥ दृष्टा रोगादितं भूपं दुःखितोऽभूत् परिग्रहः । लोकाः सम्भूय सर्वेऽपि मन्त्रयाश्चक्रिरे मिथः ॥ ३६५॥ अयं हि वयसा ज्येष्ठो देवराजोऽस्ति यद्यपि। तथाऽपि हि गुणज्येष्ठो वत्सराजोऽस्त्वसौ नृपः॥ ३६६ ॥ जनवादममुं श्रुत्वा सहालोच्यैकमन्त्रिणा । स्वीचक्रे देवराजेन सैन्यं वाजिगजादिकम् ॥३६७॥ तं नियुक्तकृतं श्रुत्वाऽऽरव किमिति भूपतिः। पप्रच्छ कथयामास सर्व परिजनोऽस्य तत् ॥३६८॥ ततश्च स जगादैवं व्याध्याधिभ्यां निपीडितः । अहो अयुक्तं विदधे कार्यमेतद्धि मन्त्रिणा ॥३६९॥ वत्सराजकुमारोऽयं योग्यो राज्यस्य नापरः । परमेतदवस्थोऽहमशक्तः किं करोमि भोः ! १॥३७॥ इत्युक्त्वा संस्थितः सोऽथ देवराजोऽभवन्नृपः । विनां जनानुरागेण राज्यं पालयति स्म सः ॥ ३७१ ॥ चकार वत्सराजोऽपि प्रणिपातादिसत्क्रियाम् । पितृवद्देवराजस्य स्वभावविनयान्वितः ॥३७२ ॥ अनुरागपरं तस्मिन् विज्ञाय सकलं जनम् । दध्यौ मन्त्री वर्धमानो राज्यमेष हरिष्यति ॥३७३ ॥ तदस्मिन्नहिते स्वस्य नोपेक्षा युज्यते खलु । कोमलोऽपि रिपुच्छेद्यो व्याधिवद् बुद्धिशालिना ॥ ३७४ ॥ विचिन्त्येदमसौ मन्त्री ज्ञापयामास भूपतिम् । सोऽवदन्ननु भो मन्त्रिन ! किमत्र क्रियतामिति ॥ ३७५॥ १मृतः।
१०८॥