________________
पंचमः
शान्तिनाथचरित्रम् ॥१०७॥
प्रस्ताव
इत्याकार्य सुरूपातिरूपे तद्वल्लभे उभे । क्षोभनार्थ नृपस्याऽस्य समीपे समुपेयतुः ॥३३६ ॥ उत्कृष्टरूपलावण्यकान्तियुक्ते सविभ्रमे । सुशृङ्गारे पुरो भूत्वा तस्यैवं ते जजल्पतुः ॥ ३३७॥ . . आवां देवाङ्गने स्वामिस्त्वयि स्नेहविमोहिते । इहाऽऽयाते ततो वाञ्छां पूरय त्वं प्रियाऽऽवयोः ॥ ३३८ ॥ विमुच्य त्रिदशाधीशं स्वाधीनं निजकं पतिम् । आवामिहागते लुब्धे त्वद्रूपगुणयौवनैः ॥ ३३९ ॥ इत्यादिरागजननपेशलैबचनस्तयोः । हावभावैश्च विविधैर्न लुब्धं तस्य मानसम् ॥३४॥ अनुकूलोपसर्गास्ते विधाय सकलां निशाम् । प्रशान्तविक्रिये प्रातरेवं संस्तुवतः स तम् ॥ ३४१॥ सरागं हृदयं चक्रे रागेणापि त्वयाऽऽवयोः । अहो ! चित्रं न रक्तोऽसि प्रक्षिप्तोऽप्यत्र सुन्दरी ॥३४२॥ विलीयते नरो लोहमयोऽप्यस्मद्विचेष्टया । न स्तोकमपि ते धीर ! चचाल हृदयं तया ॥ ३४३ ॥ क्षमयित्वाऽपराधं वं नमस्कृत्याथ तं नृपम् । कुर्वत्यौ तद्गुणश्लाघा जग्मतुस्ते निजाऽऽश्रयम् ॥ ३४४॥ प्रतिमां पारयामास पौषधं च यथाविधि । राजा मेघरथः प्रातर्विदधे पारणं ततः ॥३४५॥ अन्यदाऽऽस्थानमासीनः ससामन्तः स भूपतिः । उद्यानपालकेनैवं भणितो भक्तिपूर्वकम् ॥३४६ ॥ स्वामिन् ! संवर्ध्यसे दिष्टया यदद्य नगरे तव । जनकः समवासा जिनो धनरथः प्रभुः ॥३४७॥ ततो दानं हिरण्यादि दवाऽस्मै पारितोषिकम् । कुमारसंयुतो राजा ययौ नन्तुं जिनेश्वरम् ॥ ३४८॥ वन्दित्वा भगवन्तं तं शेषानपि तपोधनान् । निषसाद यथास्थानं भक्तिभावितमानसः ॥३४९॥