________________
कृत्वा बालतपो मृत्ला सुरूपाख्योऽमृताशनः । ईशानकल्पे जातोऽयं तदेन्द्रः प्रशशंस माम् ॥ ३२२ ॥ अश्रद्दधत्प्रशंसां तामिहायाऽतस्ततः परम् । यज्जातं भवतां तद्धि प्रत्यक्षं सर्वमेव भोः। ॥ ३२३ ॥ स्ववृत्तं देववृत्तं च तावाकये विहायसौ । संजातजातिस्मरणौ स्ववाचैवं जजल्पतुः ॥ ३२४ ॥ इदं स्वचरितं स्वामिन् ! श्रुत्वा संवेग आवयोः । संजातोऽतिगुरुश्चित्ते यत् कर्तव्यं तदादिश ॥ ३२५ ॥ राज्ञोक्तं भोः ! सुदृष्टित्वं प्रतिपद्य महाशयौ!| भावसारं विदधीथोऽनशनं पापनाशनम् ॥ ३२६ ॥ ततस्तौ विहितप्रायौ स्मृतपञ्चनमस्कृती । मृत्वा धन्यौ समुत्पन्नौ देवौ भुवनवासिपु ॥ ३२७॥ पौपधं पारयित्वा तं विधिना कृत्वाच पारणम् । भोगानभुक्त भूयोऽपि राजा मेघरथः सुधीः ॥ ३२८ ॥ परीपहोपसर्गेभ्योऽभीत: संवेगवासितः । सोऽन्यदाऽष्टमभक्तेन तस्थौ प्रतिमया स्थिरः ॥ ३२९॥ अष्टाविंशतिलक्षाणां विमानानामधीशिना । अत्रान्तरे भक्तिवशादीशानेन्द्रेण जल्पितम् ॥ ३३०॥ माहात्म्यनिर्जिताशेपत्रैलोक्य ! गतकल्मप ! | भविष्यदर्हते तुभ्यं महासत्त्व ! नमो नमः ॥ ३३१ ।। तमाकर्ण्य समीपस्थाः पृच्छन्ति स्मेति तत्प्रिया:स्वामिन कस्य नमस्कारो युष्माभिर्विहितोऽधुना॥३३२॥ सोऽवदतु श्रृणु त्रैलोक्यसुन्दरि ! क्षितिमण्डले । नगर्या पुण्डरीकिण्यां राजा मेघरथाऽभिधः।। ३३३ ।। कसाऽटमतपःकर्मा स्थिरप्रतिमया स्थितः । वर्तमानः शुभध्याने मया भक्त्या नमस्कृतः ॥ ३३४ ॥ (युग्मम्) एवंविधशुभध्यानाद् धर्मे तल्लीनमानसम् । शक्ताश्चालयितुं नैनं सेन्द्रा अपि दिवौकसः ॥ ३३५ ॥