________________
शान्तिनाथचरित्रम् ॥१०६॥
पंचमः प्रस्ताव
युगलेन समुत्पन्नौ वाणिज्यकलयाऽन्वितौ । धननन्दननामानावभूतां नन्दनौ तयोः ॥३०९॥ पितरं समनुज्ञाप्य सार्थेन सममन्यदा । जग्मतुस्तौ वणिज्यार्थ पुरं नागपुराभिधम् ॥३१ ॥ व्यवहारं प्रकुर्वद्भ्यां ताभ्यामेकमुपार्जितम् । बहुमूल्यं तत्र रत्नं कथञ्चिदैवयोगतः ॥ ३११ ॥ ततस्तौ तस्य लोभेनाऽन्योन्यघाताभिलाषिणौ । मज्जन्तावन्यदा नद्यां विवादमिति चक्रतुः ॥३१२ ॥ एकोऽवोचन्मयैवेदं चारु रत्नमुपार्जितम् । द्वितीयः स्माह मयका त्वं लोभ कुरुषे वृथा ॥ ३१३ ॥ इत्यन्योन्यं रुपाक्रान्तौ तौयुद्धवाऽरुणलोचनौ। पतितौ निम्नगानीरे चालध्यानेन संस्थितौ ॥ ३१४ ॥ संजातौ पक्षिणावेतौ वनमध्ये ततोऽधुना । मिलितो कलहायन्तौ मया भोः ! समधिष्ठितौ ॥३१५॥ इत्युक्त्वा निर्जरः सोऽथ जगाम त्रिदशालयम् । पप्रच्छविस्मयापन्नाः सभ्या मेघरथं नृपम् ॥ ३१६ ॥ नृनाथ ! त्रिदशः कोऽयं येन यूयं निरागसः । विधाय बहुधा मायां पातिताः प्राणसंशये १॥ ३१७॥ ततो मेघरथो राजा जगाद यदि कौतुकम् । भवतामस्ति तत्सावधानाः श्रृणुत मद्वचः ॥३१८॥ इतो भवादतिक्रान्ते पञ्चमेऽहं भवेऽभवम् । अग्रजोऽनन्तवीर्यस्य बलदेवोऽपराजितः ॥३१९ ॥ तदाऽऽवयोरभूच्छत्रुर्दमितारिमहाभुजः । अपहृत्य सुतां तस्य स आवाभ्यां निपातितः ॥ ३२०॥ भ्रान्त्वा संसारकान्तारमिहैव भरतार्धके । अष्टापदगिरेर्मूले सोऽभवत्तापसात्मजः ॥३२१ ॥
१ मृतौ । २ देवः।
॥१०६॥