SearchBrowseAboutContactDonate
Page Preview
Page 214
Loading...
Download File
Download File
Page Text
________________ शान्तिना- ... वचरित्रम् ॥१०५॥ पंचमः प्रस्ताव एहि भद्र ! शीघ्रं त्वं विधाय स्वसमीहितम् । कष्टेन वर्तते स्वामी सोऽथ तामित्यभाषत ॥ २८४ ॥ आख्याहि भद्रे ! प्रियदर्शनस्य न गङ्गदत्तः पुनरेति कूपम् । बुभुक्षितः किं न करोति पापं ? क्षीणा नरा निष्करुणा भवन्ति ॥ २८५ ॥ इत्यात्मचिन्तितं तस्या आख्याय पुनरब्रवीत् । त्वयाऽपि तस्य विश्वासो न कर्तव्यः कथश्चन ॥ २८६ ॥ एवं राजन्! क्षुधातः सन् कृत्याऽकृत्यं न वेम्यहम्। तदाशुप्रीणय त्वं मां यावत प्राणा न यान्त्यमी।। २८७ ॥ एवं श्येनेन भणिते प्रोवाच जगतीपतिः । यच्छामि ते वराऽऽहारं भद्र ! त्वं क्षुधितो यदि ॥ २८८॥ पक्ष्यूचे नान्य आहारोऽस्माकमिष्टो विनाऽमिषम् । तदप्यानीय शूनाया दास्यामीति नृपोऽवदत् ॥ २८९ ॥ पश्यतो मेऽङ्गिनो मांस छित्त्वा चेद्दीयते ततः। तृप्तिर्भवेदिति पुनर्वदति स्म स नीडेजः ॥२९ ॥ राजोचे यत्प्रमाणोऽयं भवेत् पक्षी तुलाधृतः । तावन्मानं निजं मांस यच्छामि किमु ते वद १॥ २९१ ॥ एवमस्त्विति तेनोक्ते तुलामानाययन्नृपः । न्यवेशयच्च तत्रैकपार्श्वे पारापतं द्विजैम् ॥२९२॥ उत्कृत्योत्कृत्य देह स्वं तीक्ष्णक्षुरिकयाऽक्षिपत् । द्वितीयपाधै मांसं च करुणारससागरः ॥२९३ ॥ छिचा निजकमांसानि स चिक्षेप यथा यथा । पारापतोऽधिकतरमवर्धिष्ट तथा तथा ॥२९४॥ गुरुभारममुं ज्ञात्वा खगं साहसिकाग्रणीः । तुलायामारुरोहाऽस्यां स्वयमेव महीपतिः ॥२९५॥ १ प्राणिवधस्थानात् । २ पक्षी । ३ पक्षिणम् | ४ छित्त्वा छित्त्वा । ॥१०५॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy