SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ पंचमः शान्तिनाथचरित्रम् ॥१०४॥ प्रस्ताव तस्य प्राणप्रिया देवी युवा कापि मनुष्यभूत् । रक्षपालाः सुरास्तस्या अपृच्छंस्तत्प्रियं सुरम् ॥ २५८॥ स्वामिन्नस्मिन् विमाने का भविता देवता न वा । तेन सावानरी तेषां भाविनी देवतोदिता ॥ २५९ ॥ व्याघ्ररूपधरो भूत्वा तत्परीक्षार्थमागतः । एको देवस्ततो राजस्तस्य वागु मानुषी वरा ॥२६॥ हरिप्रियानिषादाभ्यां सह तेन विनिर्ममे । विवादो बहुधा मायागालाऽनुचरेण च ॥२६१॥ प्रतिबुद्धस्ततो राजा राज्यं न्यस्य सुते निजे । तेपामेव मुनीन्द्राणां पार्श्वे जातो महाव्रती ॥२६२ ॥ हरिपालाख्यराजर्षिः पालयित्वा व्रतं चिरम् । सुरलक्ष्मीमवापोचैस्तस्मिन्नेव सुरालये ॥२६३ ॥ इति निषादवानरी कथा। यथाऽसौ नरकं प्राप्तो निषादो जीवहिंसया । तथाऽन्योऽपि भवेत्तस्मात्याज्येयं सर्वथा त्वया ॥ २६४॥ श्रुत्वा मेघरथस्योक्ति श्येनोवोचन्महीपते ! | धर्माधर्मविचारं त्वं करोष्येवं सुखी यतः ॥२६५॥ पारापतोऽयं मद्भीतः शरणं त्वां समाश्रितः । बुभुक्षाराक्षसीग्रस्तः शरणं कं श्रयाम्यहम् ? ॥२६६॥ राजन् ! सत्पुरुषोऽसि त्वं दुःखं कस्यापि नेच्छसि । रक्ष रक्ष कृपाशूर ! तदेनमिव मामपि ॥ २६७ ॥ कृत्याकृत्यं स्वयं वेत्सि किन्त्वेक कथयामि ते । मादृशे क्षुधिते क्षुद्रे कीदृशी धर्मवासना! ॥ २६८॥ विवेको हर्दिया धर्मो विद्या स्नेहश्च सौम्यता । सत्वं च जायते नैव क्षुधार्तस्य शरीरिणः ॥२६९॥ प्रतिपन्नमपि प्रायो लुप्यते क्षुन्निपीडितः । इत्यर्थे नीतिशास्त्रोक्तो दृष्टान्तः श्रूयतां प्रमो। ॥ २७०॥ will॥१०४॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy