________________
ऊचे च सचिवोऽनर्थमकार्षमहमीदृशम् । नादास्यं चेत्सुतां कुष्ठी नाभविष्यत्सुतोऽपि ते ॥२११ ॥ अमात्योऽप्यत्रवीत् स्वामिन् ! हितकार्य प्रकुर्वताम् । को दोषो भवतामत्र दोषो मत्कर्मणां पुनः ॥२१२॥ अथोत्थाय ययौ मन्त्री सा तु त्रैलोक्यसुन्दरी । इष्टाऽप्यनिष्टा संजाता राज्ञः परिजनस्य च ॥ २१३॥ न कोऽप्येनामाललाप नाभ्यनन्दत दृशापि हि । एकत्र गुप्तगेहेऽस्थात् सा मातृगृहपृष्ठतः ॥ २१४ ॥ अचिन्तयच्च दुष्कर्म किं मया विहितं पुरा । येन क्वापि ययौ नंष्ट्रवा परिणीतः स मे पतिः॥ २१५॥ अन्यच्च लोकमध्येऽदः कलई समुपस्थितम् । किं करोमि क गच्छामि व्यसने पतिताऽसि हा ॥ २१६॥ एवं चिन्तां प्रकुर्वन्त्यास्तस्याश्चित्ते स्थितं तदा। भवितोजयिनीपुऱ्या प्राप्तो नूनं स मे पतिः॥२१७॥ तदा च मोदकांस्तेन भुक्त्वा संजल्पितं किल । एते हि मोदका रम्याः कित्ववन्त्या जलोचिताः॥ २१८॥ ततः केनाप्युपायेन तत्र गच्छाम्यहं यदि । तदान्विष्य मिलित्वाऽस्य भवामि सुखभागिनी ॥ २१९ ॥ ___ अथान्येधुरुवाचाम्यां हे मातर्जनको मम । एकवारं यथा वाक्यं श्रृणोति त्वं तथा कुरु ॥ २२० ॥ तां दृष्ट्वानादरपरामन्येयुः सिंहनामकम् । सामन्तं ज्ञापयामास सा तमर्थ कृताञ्जलिः ॥२२१ ॥ सोऽथ राजकुले गत्वा नृपं नत्वोपविश्य च । इति विज्ञापयामास प्रस्तावे वदतां वरः ॥२२२ ।। नृनाथ ! भवता मान्यचरी सम्प्रत्यसम्मता। वराकी वर्त्तते कष्टे सैपा त्रैलोक्यसुन्दरी ॥ २२३॥ अस्याः संमानदानादि दूरेऽस्त्वालपनं तथा । वाक्यश्रवणमात्रेण प्रसादोऽद्य विधीयताम् ॥ २२४॥
stoniamonanesambandinsaan