SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ पंचमः शान्तिनाथचरित्रम् ॥१.१॥ प्रस्तावा मान्त्रिकास्तान्त्रिकाश्चैव समाहूता महीभुजा। चिकित्सा च समारब्धा तत्रैको मान्त्रिकोऽवदत् ॥ १८१ ।। ममास्ति निर्मलज्ञानं तेन जानामि भूपते । । योऽसौ व्यापाद्यते विप्रस्तमवैहि निरागसम् ॥१८२ ॥ अनेन किल कान्तारे पुरा कूपात समुद्धृताः । व्यालवानरशार्दूलाः कलादश्च चतुर्थकः ॥१८३ ।। सोऽयमत्राऽऽगतोऽपूजि वानरेण फलादिभिः । अस्य पूजाकृते राजन् ! हतो व्याघेण ते सुतः॥ १८४ ॥ व्याघ्रदत्तं तमादायाऽलङ्कारमृजुधीरयम् । पार्श्वे कृतोपकारस्य कलादस्य समागतः ॥१८५॥ कलादवचसा देव! भवता हन्तुमादरात् । समादिष्टोऽथ दृष्टश्च भोगिना तेन सोऽध्वनि ॥ १८६॥ ततश्च तद्विमोक्षार्थ दटा युष्मत्सुताऽमुना। यद्येष मुच्यते विप्रस्तदा जीवत्यसावपि ॥ १८७ ।। अत्रार्थे प्रत्ययः कश्चिदित्युक्ते भूभुजाऽथ सः । तत्रावतारयामास मान्त्रिकस्तं महोरगम् ॥ १८८ ॥ तेनाप्यनुमतं सर्व यदुक्तं मन्त्रवादिना । संजातप्रत्ययो राजा ततश्चाऽमोचयद् द्विजम् ॥ १८९ ॥ मुक्तं दृष्ट्वा द्विजन्मानमुरगो गौरवाञ्चितम् । प्रत्याजहार गरलमात्मीयं दंशधावनात् ॥ १९० ॥ अथ सा राजतनया कौमुदीवोदयं ययौ । राजलोकस्तदा सर्वो बभूव कुमुदोपमः ॥ १९१ ॥ तस्य द्विजन्मनश्चाग्रे कथयामास मान्त्रिकः । यत्ते दत्तं जीवदानं पन्नगेनाऽमुना खलु ॥ १९२ ॥ विप्रोऽयोचदहो ! रम्यं चरित्रं देहिनामिह । क्रूरा अपि कृतज्ञत्वं दधन्यन्ये कृतघ्नताम् ॥ १९३ ॥ दधात्वसौ भूतधात्री द्वावेव पुरुषौ सदा । उपकारे मतिर्यस्य यश्च नोपकृतं हरेत् ॥ १९४ ।। ॥१०१॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy