SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ पंचमः प्रस्ताव: शान्तिनाथचरित्रम् १९६॥ . OSSIERREEEEEEEXBikki मिथः शृङ्गाग्रघातेन भिन्नशीषर्षों सविस्मयम् । मृत्वेमौ कुक्कुटौ जातौ रोषाऽरुणविलोचनौ ॥४६॥ ततश्च नैतयोर्मध्याद् वत्सैकोऽपि विजेष्यते । इति श्रुत्वा मेघरथोऽवधिज्ञानी शशंस च ॥४७॥ न केवलमिमौ तात ! मत्सरावेष्टितौ दृढम् । खेचराधिष्ठितौ चात्र कारणं कथयामि वः ॥४८॥ अस्त्यत्र भरतक्षेत्रे वैताढ्यवरपर्वते । सुवर्णनाभ नगरमुत्तरश्रेणिभूषणम् ॥४९॥ तत्राऽऽसीद् गुरुडवेगाऽभिधानः खेचरेश्वरः । तस्य पुत्रौ चन्द्रसूरतिलकाऽऽख्यौ नभश्चरौ ॥५०॥ अन्यदा तौ नमस्कर्तु प्रतिमाः शाश्वताहताम् । जग्मतुर्मेरुशिखरे जिनस्नात्रपवित्रिते ॥५१॥ तत्र सागरचन्द्राऽऽख्यं 'चारणश्रमणं वरम् । दृष्ट्वा प्रणेमतुः स्वर्णशिलाऽऽसीनमिमौ मुदा ॥५२॥ पृष्टो मुनिवरस्ताभ्यां निजपूर्वभवस्थितिम् । सोऽपि ज्ञानेन विज्ञाय कथयामास ताविति ॥५३॥ अस्तीह धातकीखण्डद्वीपस्यैरवते पुरम् । नाम्ना वज्रपुरं तत्राऽभयघोषोऽभवद् नृपः सुवर्णतिलका तस्य राज्ञी तत्कुक्षिसम्भवौ । अभूतां जयविजयाभिधानौ वरनन्दनौ इतः सुवर्णनगरस्वामिनः शङ्खभूपतेः । पृथ्वीदेवीभवा पृथ्वीसेना नाम्नी सुकन्यका भूपस्याऽभयघोषस्य समायाता स्वयंवरा । परिणीतातिहर्षेण तेनासौ मृगलोचना ॥५७॥ अन्यदाऽथ वसन्तौ सुपुष्पवनबन्धुरे । ययौ क्रीडितुमुद्याने राजा राज्ञीशतान्वितः ॥ ५८॥ भ्रमन्त्या तत्र तत्पल्या पृथ्वीसेनाऽभिधानया । अदर्शि दान्तदमनाऽभिधानो मुनिपुङ्गवः ॥५९ ॥ ॥९६॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy