SearchBrowseAboutContactDonate
Page Preview
Page 193
Loading...
Download File
Download File
Page Text
________________ चक्रच्छत्रमणिदण्डकाकिणीखड्गचर्मणाम् । प्रत्येक लक्षणानीह ज्ञातव्यानि कलाविदा ॥१३॥ चन्द्रसूरग्रहराहुचरितं सूपकारता । विद्याकारो मन्त्रगतं रहस्यगतमेव च ॥१४॥ व्यूह चापि प्रतिव्यहं चारं च प्रतिचारकम् । स्कन्धावारप्रमाणं च मानं च पुरवास्तुनोः ॥१५॥ स्कन्धावारपुरवास्तुनिवेशं चाऽश्वशिक्षणम् । हस्तिशिक्षा तत्ववादं नीतिशास्त्रं सविस्तरम् ॥१६॥ धनुर्वेदमणिकर्णधातुवादं तथैव च । वाहुयुद्धं दण्डयुद्धं दृष्टिमुष्टयोर्युषं तथा । नियुद्धं वाग्युधं सर्पवयपा स्तम्भनं तथा । पत्रच्छेदं वैद्यकं च कृषिर्वाणिज्यकर्म च ॥१८॥ विज्ञेयो चलिपलितनाशः पक्षिरुतं तथा । कला द्विसप्ततिश्चैता विद्वद्भिः परिकीर्तिताः कलाकलापसम्पूर्णौ रूपनिर्जितमन्मथौ। क्रमेण यौवनं प्राप्तौ कुमारौ तौ बभूवतुः ॥२०॥ सुमन्दिरपुराधीशनिहतारिनृपाऽऽत्मजे । उपयेमे मेघरथः प्रियमित्रामनोरमे ॥२१॥ तस्यैव भूपतेः पुत्री कनिष्ठा रूपसंयुता। पुत्री दृढरथस्याऽपि जज्ञे सुमतिसज्ञिका ॥ २२ ।। नन्दिपेणमेघसेनाऽभिधानौ चरनन्दनौ । जातो मेघग्थस्याऽथ पत्नीद्वितयसंभवौ ॥ २३॥ पुत्रो दृढरथस्यैको रथसेनाऽभिधोऽभवत् । ते त्रयोऽयि कलाऽभ्यासं समये चक्रिरेऽखिलम् ॥२४॥ गजा घनस्थोऽन्येद्यः पुत्रपौत्रममन्वितः । सिंहासननिविष्टोऽधितष्ठावास्थानमण्डपम् ॥२५॥ प्रोक्ता मेवरथेनाथ नवाधीता निजात्मजाः । चत्माः ! प्रज्ञाप्रकाशार्थ ब्रूत प्रश्नोत्तराणि च ॥ २६ ॥ EEEEEEEEEEEEEEEEEEEECE
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy