________________
धर्म तदन्तिके श्रुत्वा प्रतिबुद्धः सकोऽपि हि । राज्ये शतवलं पुत्रं निवेश्य व्रतमाददे ॥७९१ ॥ गीतार्थो मिलितः सोऽथ तातसाधोस्ततश्च तौ । भूम्यां विहरतःस्मोभौ कुर्वन्तौ विविधं तपः ॥७९२ ॥ ईपत प्राग्भारसंज्ञेष्य समारुह्य महीघरे । संतस्थतुः कृतप्रायौ पादपोपगमेन तो
॥७९३॥ त्यक्त्वा देहमिदं मलाञ्चितमुभौ तौ देवलोकोत्तरं संप्राप्तौ नवमं गतावमुमथ ग्रैवेयकायकम् । इत्थं शान्तिजिनेश्वरस्यचरिते तस्यैववर्याटमः प्रोक्तोऽयं मयका भवः सनवमः सङ्घस्य कुर्याच्छिवम् ॥७९४॥
इत्याचार्यश्रीअजितप्रभसूरिविरचिते श्रीशान्तिनाथचरिते अष्टमनवम
भववर्णनो नाम चतुर्थः प्रस्तावः