________________
तस्य बुद्धिप्रभावेण दृप्ता अपि महीभुजः । अरिकेमरिभूपस्य बभूवुर्वशवर्तिनः
॥७६५॥ ॥इति रोहककथानकं समाप्तम् ॥ बुद्धिनयिकी सा या विनयेन भवेद् गुरोः अधीतेऽपि निमित्ताऽऽदिशास्त्रे चारुविचारकृत् ।। ७६६॥ घटचित्राऽऽदिकरणशिल्पिनां लेखकस्य च। भवेत् कर्मसमुत्था या सा बुद्धिः कार्मिकी स्फुटम् ॥ ७६७ ॥ परिणामवशात् मर्चवस्तुनः कृतनिश्चया। स्यात् पारिणामिकी बुद्धिः प्रतिबोधविधायिनी ॥७६८॥ सर्वामामपि बुद्धीनां दृष्टान्ता आगमोदिताः । अनेके सन्ति ते ग्रन्थगौरवादिह नोदिताः ॥७६९॥ बुद्धिश्चतुर्विधाऽप्येषा मतिज्ञानमिहोच्यते । सति यस्मिन् श्रुतमपि प्रादुर्भवति देहिनाम् ॥७७० ॥ त्रिकालविपयं वस्तु येनाऽधीतेन विद्यते । तत् सिद्धमाकामुख्यं श्रुतज्ञान प्रकीर्तितम् ॥ ७७१ ॥ कियन्तोऽपि भवा येन विज्ञायन्ते शरीरिणाम् । प्रोक्तं तदवधिज्ञानं सर्वदिक्षु कृतावधि ॥७७२॥ भावा मनोगता येन ज्ञायन्ते संझिदेहिनाम् । मनःपर्यवसंज्ञं तच्चतुर्थ ज्ञानमुच्यते ॥७७३॥ सर्वत्र सर्वदा यस्य स्खलना न कथञ्चन । तद्भवे केवलज्ञानं पञ्चमं सिद्धिसौख्यकृत् ॥७७४ ।। अथोत्थाय जिनं नत्वा गृहे गत्वा च चक्रभृत् । राज्ये न्यवेशयत् पुत्रं स सहस्राऽऽयुधाभिधम् ॥ ७७५॥ चतु:महसे राजीनां तत्संख्यैः पार्थिवैस्तथा । सप्तपुत्रशतैः सार्द्ध स श्रामण्यं ततोऽग्रहीत् ॥ ७७६॥ गृहीत्वा द्विविधां शिक्षां गीतार्थो विहरन भुवि । ययौ सोऽपि गिरिवरं सिद्धिपर्वतसंज्ञकम् ॥ ७७७॥