SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ चतुर्थः शान्तिनाघचरित्रम् १९१॥ • प्रस्तावः अन्यदाकारयद् वैति नृपतिर्वालुकामयीम् । अनया गोपयिष्यन्ते शालीनां किल तन्दुलाः ॥ ७२५॥ रोहकोऽप्यवदद् राजकार्य कार्य यथातथम् । परं प्रमाण नैतस्या जानीमोऽकृतपूर्विणः ॥७२६ ॥ ततस्तस्याः पुरातन्याः खण्डमेकं प्रदर्यताम् । यतस्तेन प्रमाणेन सा नव्या क्रियते बहुः ॥ ७२७ ॥ अन्यदा च जरद्धस्ती प्रेपितस्तत्र भूभुजा । कथितं च यथा यत्नात पाल्योऽयं मम वारणः ॥ ७२८॥ संस्थितस्याऽस्य मे वार्ता कथनीया यथा तथा। मृत इत्यक्षरद्वन्द्वं नोचार्य तु पुरो मम ॥७२९ ॥ ज्ञापितो रोहकेणेति मृते तस्मिन् महीपतिः । यद् देव ! न चरत्यद्य करी पिबति वा न च ॥ ७३० ॥ चक्रे नोच्छ्वासनिःश्वासौराज्ञोचे तर्हि किंमृतः। सोऽवदद्वेभि नैवाऽहं देवोजानाति कारणम् ॥ ७३१ ॥ राज्ञा पुनः समादिष्टं ग्रामलोकस्य तस्य तु । यद् भोः ! स्वादुजलाऽऽपूर्णः स्वकूपः प्रेष्यतामिह ॥ ७३२ ॥ प्रत्यूचे रोहकोऽप्येवं पुरस्था कापि कूपिका । देवाभदौ प्रेष्यतामत्र यतः सार्द्ध तयैत्ययम् ॥ ७३३ ॥ हृष्टो राजाऽप्यमापिष्ट युक्तमेतेन जल्पितम् । कार्यस्याऽघटमानस्याऽघटमानमिहोत्तरम् ॥७३४ ॥ प्रदत्ताज्ञा पुना राज्ञा यदुदीच्यां वनं दिशि । दक्षिणस्यां दिशि ग्रामात् तत् कथं क्रियते वद ॥ ७३५ ॥ रोहकोऽप्यवदद् ग्रामनिवेशः क्रियतेऽन्यतः । तेनैव विधिना ग्रामाद् भवेद् दक्षिणतो वनम् ॥ ७३६ ॥ राजा देशात स चाऽन्येयुः पायसं पावकं विना । पपाचावकरस्यान्तःस्थाली विन्यस्य यत्नतः॥ ७३७ ॥ १ रज्जुम्.
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy