________________
सोऽवदद कपितो यत् त्वं शुश्रूषों न करोषि मे। भविष्यति ततोऽवश्यं हे मातः! ते न सुन्दरम् ॥ ६८५॥ साज्ञवीरे शिशो! यत् त्वं निग्रहानुग्रहाक्षमः । स त्वं रुष्टोऽथवा तुष्टः करिष्यसि ममान किम् ॥ ६८६॥ रोहकः चिन्तयामासोत्पाद्य मन्तुं कमप्यहम् । तथा करिष्ये तातस्यानिष्टेयं जायते यथा ॥ ६८७॥ विचिन्त्यैवं स यामिन्यामुत्थाय सहसाब्रवीत् । यात्येष पुरुषः कोऽपि निःसृत्य गृहमध्यतः ॥ ६८८॥ तद् निशम्य पिता तस्य शयानोऽथ गृहाजिरे । उत्थायोवाच रे ! दुष्टं तं दर्शय नरं मम ॥ ६८९॥ रोहकोऽप्यवदत् तात !स उत्प्लुत्य गतः क्षणात् । रङ्गोऽपि हि विरागार्हस्ततोऽभूद् गेहिनी प्रति ॥६९०॥ आः! किमन्यनरासक्ता जातेयमथवा भवेत् । किमिदं दुर्घट येन भवन्त्येवंविधाः स्त्रियः॥ ६९१॥ पृथक्शय्याविधानेन ततोऽसौ तेन धीमता । अशस्त्रवधवदुःखभागिनी विदधे स्फुटम् ॥ ६९२ ॥ साऽपि दध्यौ मया नापराद्धं किमपि भर्तरि । नूनमेतेन वालेन कोपितोऽयं पतिर्मम ॥ ६९३ ॥ करोम्यस्यैव तद्भक्तिं भर्तृतोपविधित्सया । येनैवारोपितं दुःखं स एवापनयत्वरम् ॥ ६९४ ॥ ततः सा प्रार्थयामास रोहकं भक्तिपूर्वकम् । वत्स ! मेऽभिमुखं कान्तं कुरु दास्यस्मि ते स्फुटम् ॥ ६९५॥ विधाय स सुधीरेवं तामात्मवशवर्तिनीम् । पुना रात्रौ सचन्द्रायां प्रोवाच जनकं प्रति ॥ ६९६॥ उत्तिष्ठोचिष्ठ हे तात ! यात्यद्याऽप्यसको नरः। अथाऽस्य पृच्छतोऽदर्शि तेन छाया शरीरजा॥ ६९७॥ १ अरं शीघम् ।