SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ शान्तिनायचरित्रम् ॥८९॥ प्रस्ताव: भगवानप्ययावादीदवधिज्ञानचक्षुषा । भवस्वरूपं विज्ञातं तेषां बजायुधेन भोः । ॥ ६७१ ॥ पुनः पप्रच्छ स ज्ञानं कतिभेदं भवत्यदः । जिनोवोचत् पञ्चधा तत् प्रसिद्ध ह्यस्मदागमे ॥ ६७२ ॥ मतिश्रुतावधिसंझं तत्र ज्ञानत्रयं भवेत् । तुर्य मनःपर्यवं च पञ्चमं केवलाऽभिधम् ॥ ६७३ ॥ बुद्धिः स्मृतिश्च प्रज्ञा चमतिः पर्यायवाचकाः। धीमद्भिः पुनरेतासां पृथक् भेदाः प्रकीर्तिताः ॥ ६७४॥ भविष्यकालविपया मतिस्तावत् प्रकीर्तिता | बुद्धिश्च वर्तमाने स्यादतीते च स्मृतिर्भवेद् ॥ ६७५ ॥ कालत्रये च विज्ञेया प्रज्ञा सा च चतुर्विधा । क्षयं गतैर्भवेजन्तोर्मत्यावरणकर्मभिः ॥ ६७६ ॥ औत्पत्तिकी वैनयिकी कार्मिकी पारिणामिकी । चतुर्विधा भवेद् बुद्धिः पञ्चमी नोपलभ्यते ॥ ६७७ ॥ अदृष्टाश्रुतपूर्वे या वस्तुन्युत्पद्यते क्षणात् । बुद्धिरौत्पत्तिकी नाम सा बुद्धैः परिकीर्तिता ॥ ६७८ ॥ मारते रोहको नाम शिलाप्रभृतिवस्तुषु । दृष्टो निदर्शनं तस्यां तत्कथा श्रूयतामिति ॥ ६७९ ॥ उज्जयिन्यां महापुर्यामरिकेसरिनामकः । बुद्धिविक्रमसंपन्नो बभूव पृथिवीपतिः ॥६८०॥ तस्याः पुर्याः समासन्ने महत्या शिलयाङ्किते । नट्यामेऽभवद् रङ्गशूरो नाम्ना कुशीलवः ॥ ६८१ ॥ अतिमात्रकलापात्रं बुद्धिनिर्जितवाक्पतिः । बालोऽप्यबालभावोऽभूत तत्पुत्रो रोहकाढयः ॥ ६८२ ॥ तन्मातरि विपन्नायां रङ्गशूरस्य तस्य तु । बभूव रुक्मिणी नाम्नी प्रेयसी रूपशालिनी ॥ ६८३ ॥ सा यौवनमदोन्मत्ता भर्तृगौरवगविता । रोहकस्याङ्गसंस्कारं न चकार तथाविधम् ॥ ६८४॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy