________________
पित्राऽपितनृवेपा सा महासार्थसमन्विता । ययौ गोपालयपुरे कियद्भिर्दिवसैस्ततः ॥६०४॥ गुणसुन्दराऽभिधानः कश्चित् मार्थपतेः सुतः । इत्यसो नगरे तस्मिन् मानितः पृथिवीभुजा ॥ ६०५॥ क्रयविक्रयादि चक्रे व्यवहारं वणिग्घितम् । समं च पुण्यसारेण मैत्रीत्वं वचनाऽऽदिभिः ॥६०६॥ (युग्मम् ) अथोचे रत्नसारं स्ववप्तारं रत्नसुन्दरी । यद् मया परिणेतव्यस्ताताऽयं गुणसुन्दरः ॥६०७॥ विज्ञाय दुहितर्भाव रत्नसारस्तदन्तिकम् । गत्वोवाच मम सुता भर्तारं त्वां समीहते ॥६०८॥ गुणसुन्दर्यथो दध्यावस्या वाञ्छा निरर्थिका । द्वयोमहिलयोर्यस्माद् गृहवासः कथं भवेत् ? ॥६०९॥ यत् किश्चिदुत्तरं कृत्वा तदेता वारयाम्यहम् । अन्यथा या गतिर्मेऽस्ति साऽस्या अपि भविष्यति ॥ ६१०॥ एवं विचिन्त्य मनसा साऽवदत् श्रेष्ठिपुङ्गवम् । अस्मिन्नर्थे कुलीनानां पित्रोरेव प्रधानता ॥६११॥ वर्तेते तौ च मे दूरे तत् त्वया निजनन्दिनी । प्रदेयाज्यस्य कस्याऽपि प्रत्यासन्ननिवासिनः ॥ ६१२॥ अभाणि रत्नसारेण मत्पुत्र्यास्त्वं हि वल्लभः । सा देया कथमन्यस्मै पुरुषाय मया यतः १ ॥६१३॥ शत्रुभिर्वन्धुरूपैः सा प्रक्षिप्ता दुःखसागरे । या दत्ता हृदयानिष्टरमणस्य कुलाङ्गना ॥६१४॥ अनुमेनेज्य तद्वाक्यं साग्रई साऽमुनोदिता । तयोविवाहश्चके च श्रेष्ठिना पुण्यवासरे ॥६१५॥ पुण्यसारस्तदाकर्ण्य कुलदेव्याः पुरो गतः। शिरः क्षुरिकया छेत्तुमारेमे मानिनां वरः ॥६१६ ।। साहसं किं करोष्येतदिति देवतयोदितः । स स्माद पर्यणैपीद् यद् कन्यामन्यो मयेप्सिताम् ॥ ६१७॥