________________
W
तत्कोटरप्रविष्टेऽस्मिन्नी(ने)यतुवते अपि । तच्छत्स्योत्पाटितः सोऽथ वटा स्वस्थानमागमत् ॥५७८ ॥ इतः पुरन्दरः श्रेष्ठी प्रामं भ्रामं पुरेऽखिले। निशान्तेऽतीवनिर्विण्णो यावत् तत्र वटे समाययौ।। ५७९ ।। तावत् सा विगता रात्रिः प्रपष्ट क्वापि तत् तमः । ततो विभातं न्यग्रोधे गतस्येत्युच्यते जनैः॥ ५८०॥ निर्ययो पुण्यसारोऽथ तदानीं वटकोटरात । वस्त्राऽलङ्कारसाराङ्गः पितृवक्त्राम्बुजार्यमा ॥५८१ ॥ पुत्रमत्यद्भुतश्रीकं दृष्ट्वा श्रेष्ठी सविस्मयः । वत्स ! वत्सेति जल्पन्तमालिलिङ्ग ससंभ्रमम् ॥५८२॥ ततः स्वगेहमायातः सह तेन विलोक्य तौ । बभूव श्रेष्ठिनी हृष्टा स्पृष्टा रुच्येव शीतगोः ॥५८३ ॥ गाढमालिङ्ग्य सस्नेहं तमुत्सङ्गे निवेश्य च । पप्रच्छ वत्स ! शोभेयं संजाता क तवेदृशी? ॥ ५८४ ॥ ऊचे च जनकोऽप्येवं ततोऽसौ सकलां कथाम् । तदग्रे कथयामास महद्विस्मयकारिणीम् ॥५८५ ॥ तावेवमूचतुर्भाग्यमहो! वत्सस्य कीदृशम् ? ऋद्धिर्येनेदृशी लब्धा रात्रिमध्येऽप्यचिन्तिता ॥५८६॥ बभाण जनको भूयःक्षन्तव्यं वत्स! तत् त्वया। मया विरूपं यत् किश्चिदुक्तं शिक्षापनाकृते ॥५८७ ॥ पुण्यसारोऽवदत् तात ! युष्मतशिक्षापनैव हि । संजाता हेतुरीदृश्याः सम्पदो नियतं मम ॥५८८ ॥ दचाऽथ द्यूतकारस्य तदानीतं विभूपणम् । नृपसत्कं नृपस्यैवाऽर्पयामास पुरन्दरः ॥ ५८९॥ विदधे पुण्यसारोऽथ हट्टव्यापारमुत्तमम् । दूरं विहाय तद् द्यूतव्यसनं गुणनाशनम् ॥ ५९ ॥ १ चन्द्रस्य.