SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ वरप्राप्तिकृते तासां श्रेष्ठिना भक्तिपूर्वकम् । आराध्य तोपितो लम्बोदरो मोदकदानतः ॥ ५५०॥ प्रत्यक्षीभ्य सोवोचदितः सप्तमवासरे । रात्रौ सुलग्नवेलायां संयोगे प्रगुणीकृते ॥५५१ ॥ सुवेपयोपायुगलपृष्ठे यः कश्चिदेष्यति । श्रेष्ठिन् ! तव सुतानां स भविष्यत्युचितो वरः ॥५५२ ।। सेयं सप्तमघस्रस्य रात्रिस्तत् तत्र गम्यते । निवासपादपश्चाऽयं नीयते च सहाऽऽत्मना ॥५५३ ॥ दध्यौ स पुण्यसारोष्य तदाकर्ण्य मनस्यदः । अहो ! प्रासङ्गिकं मेऽपि भावि कौतूहलेक्षणम् ॥ ५५४ ॥ कीदृशी वलभी सापूः कीदृग् लम्बोदरः स च । कीदृक्षाः कन्यकाश्चेति सर्व द्रष्टाऽस्मि कौतुकम् ॥ ५५५॥ विधाय हुंकृति ताभ्यामुत्क्षिप्तो वटपादपः । उद्याने वलभीपुर्या गत्वा तस्थौ क्षणेन सः ॥५५६॥ विधाय नायिकारूपं चेलतुर्दैवते ततः। तयोरनुपदं पुण्यसारोऽपि चलति स्म सः ॥ ५५७॥ लम्बोदरगृहद्वारे वेदिकामण्डपे कृते । मेलितस्वजनः श्रेष्ठी यावदासीत सुताऽन्वितः तावत् ते देवते तस्य समीपेन प्रजग्मतुः। श्रेष्ठयावासे रसवत्या रसग्रहणहेतवे ॥५५९॥ (युग्मम्) एते अनुव्रजन पुण्यसारः श्रेष्ठिवरेण सः । ददृशे भणि तश्चैवं निवेश्य प्रवराऽऽसने ॥ ५६०॥ लम्बोदरेण भद्र ! त्वं जामाता परिकल्पितः। एता मम सुताः सप्त तत्वं परिणयाऽनघ। ॥५६१॥ इत्युदित्वा सुवसने नवीने परिधापितः । लक्षमूल्यभूषणेनाऽलङ्कतः श्रेष्ठिना च सः ॥५६२॥ ततो भवत्सु धवलमङ्गलेष्वग्निसाक्षिकम् । परिणीताः चारुकन्याः पुरन्दरसुतेन ताः ॥५६३॥ १५
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy