SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ शान्तिनाथचरित्रम् ॥८४॥ चतुर्थः प्रस्ताव सोचे निस्सारितो येन तनयो रजनीमुखे । स तं मे मुखमात्मीयं कथं दर्शयसि स्फुटम् ? ॥ ५३७ ॥ घालं नेत्रविशालं तमेकतो त्वमात्मनः । अस्यां विकालवेलायां निरस्यन् लजसे न किम् १ ॥ ५३८ ॥ तद्गन्छ नसके तस्मिन् समानीते गृहे मम । आगन्तव्यं त्वयाऽपीति स तया निरवास्यत ॥ ५३९ ॥ गेहिनीभत्सितः पुत्रं स्मृत्वा सोऽपि सुदुःखितः । सर्वत्राऽन्वेपयामास नगरे निजनन्दनम् ॥५४॥ गृहं निर्मानुपं वीक्ष्य श्रेष्ठिनी सा व्यचिन्तयत् । निरासे हा! मया गेहाद्पतिः कोपपरीतया ॥ ५४१ ॥ पुत्रापायकृता पूर्व मूर्खता श्रेष्ठिना कृता । निरस्यन्त्या स्वभारं पश्चात् चक्रे मयाऽपि सा ॥ ५४२ ॥ एवं चिन्ताऽऽतुरा सास्रा तयोर्मार्गावलोकनम् । कुर्वाणो तनुः साऽस्था द्वारदेशे स्ववेश्मनः ॥ ५४३॥ ददर्श पुण्यसारोऽय तत्रोमे देवते निशि । स्वरोचिपा तमोहन्थ्यौ शुश्रावेति च तदुगिरम् ॥५४४॥ एका स्माह स्वसः ! किं न स्वेच्छया भ्राम्यते सुवि? । वर्तते यदियं रात्रिरस्मत्पक्षकृतोदया ॥ ५४५ ॥ द्वितीयोवाच किं व्यर्थ भ्रान्त्याऽऽत्मा खेद्यते हले ।। दृश्यते कौतुकं क्वाऽपि यदि तत्रै गम्यते ॥ ५४६ ॥ सावदत् कौतुकं तर्हि गच्छामो वलभीपुरे । श्रेष्ठी वसति यत् तत्र धनप्रवरनामकः ॥५४७ ॥ जाता धनवतीकुक्षिसम्भवास्तस्य कन्यकाः। सप्तैताः सन्ति चावेङ्गयस्तत्राऽऽद्या धर्मसुन्दरी ॥ ५४८॥ घनसुन्दयथो कामसुन्दरी मुक्तिसुन्दरी । भाग्यसौभाग्यसुन्दयौँ सप्तमी गुणसुन्दरी ॥५४९ ॥ १ तोकमपत्यम् । २ तृतीयान्तम् । ॥८४॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy