________________
समधीतकलः सोऽथोद्यौवनः श्रेष्ठिनन्दनः । केनचित कर्मदोपेण दुरोदररतोऽभवत् ॥ ५२४॥ अतीव वल्लभत्वेन पितृभ्यामनिवारितः । स द्यूतव्यसनि जज्ञे निषिद्धो न न्यवर्तत ॥५२५॥ लक्षमूल्यमथान्येवू राज्ञोऽलङ्करणं गृहात् । हत्वा दत्तं समिकस्य स्वलक्षे हारितेऽमुना ॥५२६॥ याचमाने नृपे श्रेष्ठी स्थानं यावद् व्यलोकयत् । तत्र यावदृष्ट्वा तद् मनस्येवमचिन्तयत् ॥ ५२७ ॥ गृहीतं पुण्यसारेण नूनमेतद् भविष्यति । अन्यस्य गूढमद्वस्तूपादाने योग्यता न हि ॥५२८॥ यदर्थ खिद्यते लोकैः यत्नश्च क्रियते महान् । तेऽपि सन्तापदा एवं दुष्पुत्राहा! भवन्त्यहो। ॥ ५२९॥ हारितं कापि तेनेदं चेद् भविष्यति तद् मया । गृहादु निर्वासनीयोऽयं पुत्ररूपेण वैरिकः ॥५३०॥ एवं विचिन्त्य हटेगात् श्रेष्ठीतत्राऽऽगतं सुतम् । पप्रच्छालङ्कृतेः शुद्धिं सोऽप्याऽऽचख्यौ यथातथम्॥५३१ ततः प्रकुपितः श्रेष्ठी तमूचे दुष्ट ! रे त्वया । तद्रूपणमुपादाय समागम्यं गृहे मम ॥५३२॥ वचसा तर्जयित्वैवं धृत्वा च गलकन्दले । निरस्तस्तनयस्तेन गाढरोपवशेन सः ॥५३३ ॥ तदा दिनावसानत्वात् अन्यतो गन्तुमक्षमः । पुरान्निस्सृत्य न्यग्रोधकोटरं प्रविवेश सः ॥५३४॥ श्रेष्ठिन्या भणितः सोऽथ गृहं प्राप्तः पुरन्दरः । कथमद्य पुण्यसारो नायात्यद्यापि मन्दिरे? ॥ ५३५ ॥ राजभूषणवृत्तान्तमाख्यायैवमुवाच सः । मया निर्वासितः सोऽद्य प्रिये ! शिक्षापनाकृते ॥५३६ ॥ १ द्यूतासक्तः। २ द्यूतकारेशस्य ।