SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ शान्तिनापचरित्रम् ॥८३॥ । चतुर्थः प्रस्ताव उवाच रत्नसारन्तु मुग्धेयं तनया मम । वाच्यावाच्यं न जानाति तदस्याः फेल्गु जल्पितम् ।। ५१२ ॥ तथाई बोधयिष्यामि श्रेष्ठिन् ! ते तनयो यथा । परिणेष्यत्यनं चैव मया दत्ता त्वसौ ध्रुवम् ॥ ५१३ ॥ ततः पुरन्दरः श्रेष्ठी गृहमागत्य तत्कथाम् । कथयित्वाऽवदत् पुत्र वत्स ! सा तव नोचिता ॥ ५१४ ॥ यतःकुदेहां विगतस्नेहां लज्जाशीलकुलोज्झिताम् । अतिप्रचण्डां दुस्तुण्डां गृहिणी परिवर्जयेत् ॥ ५१५॥ प्रत्यूचे पुण्यसारस्तु अमूं परिणयामि चेत् । भवामि तदहं सत्यप्रतिज्ञस्तात ! नान्यथा ॥५१६ ॥ अपश्यन्नपरोपायं तल्लामे सोऽथ बुद्धिमान् । पृष्ट्वा नातं स्वंदानीं तां विवेद कुलदेवताम् ॥५१७॥ ततः कुसुमनैवेद्यगन्धधूपविलेपनैः। अभ्यर्च्य सुविनीतात्मा प्रार्थयामास तामिति ॥५१८ ॥ दत्तोऽहं तुष्टया देवि ! श्रेष्ठिनस्तनयो यया । सा त्वं वाञ्छां कलत्रस्य सकले ! पूरयाऽद्यमे ॥ ५१९ ॥ न चेत् पूरयसि स्वेच्छां मम वं कुलदेवते ! । अमंत्रमपमानस्य ततोऽहं निर्मितः कथम् ? ॥ ५२० ॥ उत्थास्यामि तदैवाहमितः स्थानाद् यदीप्सितम् । पूरयिष्यसि देवि! त्वं भोक्ष्ये चाऽहं तदैव हि ॥ ५२१ ॥ इत्थं कृतप्रतिज्ञेऽस्मिन् दिनमेकमुपोषिते । तुष्टा सोचे शनैर्वत्स! सर्व भव्यं भविष्यति ॥५२२ ॥ हृष्टचित्तस्ततः पुण्यसारो विहितभोजनः । अवशिष्टकलाऽभ्यासं विदधे जनकाऽऽज्ञया ॥५२३ ॥ १ तुच्छं अग्राह्यमित्यर्थः । २ स्वस्येष्टस्य दात्री। ३ पात्रम् । ॥ 2
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy