SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ - tre-- ततोऽसौ लेखशालायाः पुण्यसारोगतो गृहम् । सुष्वाप मन्युशय्यायां भूत्वा म्लानमुखोऽसुखी॥ ४९८ ॥ श्रेष्ठी पुरन्दरो वेश्म भोजनार्थमुपागतः । ज्ञात्वातचेष्टितं तस्याऽन्तिकमेत्यैवमूचिवान् ॥४९९॥ अयि वत्स ! कुतो हेतोरद्य श्याममुखो भवान् ? । अकाले शयनं कि ते कारणं मे निवेदय? ॥ ५००॥ निबन्धपृष्टः सोवोचत् तात! मारत्नसुन्दरीम् । परिणाययसि त्वं चेत् तदा स्वस्थो भवाम्यहम् ॥ ५०१॥ भूयोऽभापिष्ट तं श्रेष्ठी बालोऽस्यद्यापि वत्सक! । कुरु तावत् कलाऽभ्यासं काले परिणये स्नुपाम् ॥ ५०२ ॥ पुत्रेण भणितं तात! यदि तांयाचसेधुना। मदर्थ तत्पितुः पार्थात् तदा भोक्ष्ये नचाऽन्यथा ॥ ५०३॥ संबोध्य भोजयित्वा तं स्वयं भुत्वा च श्रेष्ठयसो । वन्धुभिः सहितो रत्नसारश्रेष्टिगृहं ययौ ॥५०४॥ अभ्युत्थानाऽऽसनदानस्वागतप्रश्नपूर्वकम् । सोऽवदत् कारणं व्रत येन यूय मिहागताः ॥५०५॥ ऊचे पुरन्दरस्त्वत्तः कन्यकां.रत्नसुन्दरीम् । याचिंतु स्वसुतस्यार्थे श्रेष्ठिन् ! वयमुपागताः ॥ ५०६॥ अभ्यधाद् रत्नसारोऽपि कृत्यं यद् मम सर्वथा । युष्माभिर्विहितं तत् यद्याचश्यं सुता मया ॥ ५०७॥ यूयमत्र पुरे मुख्या याचितारः सुतां मम | सहिता बन्धुभिश्चैभिस्तद् वाच्यं किमतः परम् ? ॥ ५०८॥ पितुः पार्श्वे स्थिता साऽथ कन्यका सहसावदत् । ताताऽहं पुण्यसारस्य भविष्यामि न गेहिनी ॥ ५०९॥ तस्यास्तद्वचनं श्रुत्वा दध्यावेवं पुरन्दरः। अहो! मे तनयस्यास्यां व्यर्थः पाणिग्रहाऽऽग्रहः ॥ ५१०॥ यस्या एवंविधा वाणी कर्कशा शैशवेऽप्यहो! भाविनीयौवनोन्मत्ता सा भर्तुःसुखदा कथम् ॥ ५११ ॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy