________________
तत् प्रपद्य परिव्रज्यां तपोनियमचारिणा । पापकर्मविलिप्तं स्वं निर्मलं प्रकरोम्यहम् ॥ ४४२ ॥ निवेश्य तनयं राज्ये सोऽथ त्यक्त्वा नृपश्रियम् । उपाददे परिव्रज्यां क्षेमङ्करजिनांऽन्तिके ॥ ४४३ ॥ विशुद्धां पालयित्वा तां समासाद्य च केवलम् । धौतकर्ममलः सिद्धिमाससाद स शुद्धधीः ॥ ४४४ ॥ साऽपि प्रभङ्करा नाम्नी तपः चान्द्रायणाऽभिधम् । गणिन्याः सुत्रताख्यायाः समीपे विदधेऽमलम् || ४४५ ॥ सेयं मृत्वा समुत्पन्ना पुत्री शान्तिमती तव । अस्याः प्राग्भवभर्ताऽयं खेचरोऽजितसेनकः ॥ ४४६ ॥ ष्ट विद्यां साधयन्ती समुत्क्षिप्ता विहायसा । इयं पूर्वभवस्नेहमोहितेनामुना ध्रुवम् ॥ ४४७ ॥ ततः पवनवेग ! त्वं त्वं च शान्तिमति ! स्फुटम् । मुच कोपं धृताटोपमस्योपरि निरर्थकम् ॥ ४४८ ॥ इति वज्रायुधवाक्यं श्रुत्वा तौ सा च वालिका । अन्योन्यं क्षमयन्ति स्माऽपराधं प्रीतचेतसः ॥ ४४९ ॥ पुनी समाचख्यौ समुद्दिश्य सभाजनम् । अतीतमुक्तमेतेषां भविष्यत् कथयामि भोः ! ॥ ४५० ॥ अमूम्यां सहिता शान्तिमती दीक्षां ग्रहीष्यति । रत्नावलीतपः कृत्वाऽनशनेन विपत्स्यते ॥ ४५१ ॥ साधिकसागर द्वंद्व स्थितिर्वृषभवाहनः । स्वामी समस्तदेवानामीशानेन्द्रो भविष्यति ॥ ४५२ ॥ वायुगत्यजित सेननाम्नोः साध्योस्तदा पुनः । घातिकर्मेन्धने दग्धे भानि केवलमुत्तमम् ॥ ४५३ ॥ केवलज्ञानमहिमां तयोः कृत्वाऽर्चनं तथा । स्वस्याङ्गस्य निजं स्थानमीशानेन्द्रो गमिष्यति ॥ ४५४ ॥ इन्द्रोऽपि हि ततयुत्वा कुले लब्ध्वा मनुष्यताम् । दीक्षां चादाय निष्कर्मा निर्वाणं समवाप्स्यति ॥ ४५५ ॥