SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ चतपः शान्तिनाथचरित्रम् ॥८ ॥ प्रस्तावः सुशृङ्गाररसमये वसन्तसमयेऽन्यदा । गत्वोद्यानवने दत्तः क्रीडति स्म तया सह ॥ ४२९॥ नृनाथतनयः सोऽय दृष्ट्वा तां सुन्दराकृतिम् । वाणैर्विपमबाणस्य पञ्चभिस्ताडितो हृदि ॥४३०॥ स्वामित्वयौवनैश्वर्यगर्वितः सोऽथ तां ततः । अपजह्वेऽगणयित्वा कलई कुलशीलयोः ॥४३१ ।। भुङ्क्ते स्म विषयसुखं कुमारः स तया सह । दत्तश्च तद्वियोगातों ययावुधानमन्यदा ॥४३२॥ सुसाधुः सुमनास्तत्र तत्कालोत्पन्नकेवलः । दृष्टोऽमुना वन्धमानो देवदानवमानवैः ॥४३३ ॥ तेनाऽपि वन्दितो भावसारं मुनिवरश्च सः । वोधयामास दत्तं तं धर्मदेशनयायया ॥४३४॥ कृत्वा दानाऽऽदिकधर्म मृत्वा चाऽऽयुःक्षयेऽथ सः। सुकन्छविजये वैताढ्याद्रौ विद्याधरेशितः ॥ ४३५॥ महेन्द्रविक्रमस्याऽभूत् तनयोजितसेनकः । तस्याऽपि कमलानाम्नी बभूव सहचारिणी ॥४३६॥ (युग्मम् ) इतः स नलिनकेतू राज्य संप्राप्य पैतृकम् । प्रभङ्कराऽऽख्यया साई गृहवासमपालयत् ।॥ ४३७ ॥ अधिरूढोऽन्यदा भूमि स्वप्रासादस्य सप्तमीम् । ददर्शाश्चितं मेधैः पञ्चवर्णभस्तलम् ॥ ४३८॥ तस्य पश्यत एवेदं मेववृन्दं सकौतुकम् । प्रचण्डपवनक्षिप्त खण्डखण्डं ययौ क्षणात् ॥ ४३९ ॥ तदृदृष्ट्वा जातसंवेगः स दध्यौ द्रविणाऽऽदिकम् । सांसारिकमहो ! वस्तु सर्वमेतदिवाञ्चवम् ॥ ४४०॥ मयाज्ञानविमूढेन हरता हा ! परस्त्रियम् । क्षणिकस्य सुखस्याऽर्थे बहुपापमुपार्जितम् ॥ ४४१॥ १ श्रेष्ठया।
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy