________________
शान्तिना
चतुर्थः प्रस्ताव
थनरित्रम्
दुःखपर्वतदम्भोलिर्भाजनं सुखसन्ततेः । अहिंसा व्रतमुख्या सा स्वर्गमोक्षविधायिनी ॥४०१॥ सत्येन लभ्यते कीर्तिः सत्यं विश्वासकारणम् । सत्यं जयति लोकेऽस्मिन द्वितीय धर्मलक्षणम् ॥ ४०२॥ अदत्तत्यागतो सुणां राजदण्डो न जायते । विशिष्टजनसंयोगो निर्भयत्वं च जायते ॥४०॥ ब्रह्मव्रतेन तेजस्वी सुभगश्च भवेद् नरः । नपुंसकत्वं तिर्यक्त्वं कदापि न लभेत च ॥४०४॥ परिग्रहेण वित्तस्य चितं सन्तोपपूरितम् । मुक्तिश्च क्रमयोगेन जायते भव्यदेहिनः ॥४०५॥ एतेषु नियतं धर्मलक्षणेष्वपि पञ्चसु । यूयं महानुभावा भोः। प्रयत्नं कुरुतान्वहम् ॥४०६॥ श्रुत्वेमा देशनां जीवाः प्रतिबुद्धा अनेकशः। प्रावति च जिनेन्द्रेण तीर्थ गणधराऽदिकम् ॥ ४०७॥ वज्रायुधोऽपि धर्मस्य प्रतिपत्ति विधाय ताम् । प्रणम्य भगवन्तं च प्रविवेश पुरीं निजाम् ॥४०८॥ अन्यदायुधशालायां चक्ररत्नं सुनिर्मलम् । समुत्पन्नं तस्य यक्षसहस्राधिष्ठितं वरम् ॥४०९ ॥ विधायाऽयदिनान्यस्य पूजां तदनुगाम्यसौ । पट्खण्डं साधयामास विजयं मङ्गलावतीम् ॥४१०॥ ततो निजपुरीं प्राप्तः चक्रवर्तिश्रियाऽश्चितः । सहस्रायुधपुत्रं स यौवराज्ये न्यवेशयत् ॥४११॥ अन्यदाऽऽस्थानमासीनः स बज्रायुधचक्रभृत् । अभूद् यावद् नृपामात्यपदातिपरिवारितः ॥ ४१२ ॥ तावद् नभस्तलाव कश्चिदेत्य विद्याधरो युवा । भयात् प्रकम्पमानाङ्गः शरणं तं समाश्रितः ॥४१३ ॥ तस्य पृष्ठे वरा काचिद खड्गखेटकघारिणी । आगाद् विद्याधरी विद्याधरश्चैको गदाधरः ॥४१४ ।।