SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ शान्तिनायचरित्रम ॥ ७७॥ चतुर्थः प्रस्तावः राजा प्रोवाच मद्वश्या अदृष्टपलिता नृपाः। प्रतिपद्य व्रतं कृत्वा तपश्च सुगतिं गताः ॥३४९॥ अहं पुनरियत्कालं स्थितो राजघरं विना। इदानीं तु करिष्यामि निश्चयेन समीहितम् ॥ ३५०॥ ततो दैवज्ञनिर्दिष्टे सुमुहूर्ते महीपतिः। देवराज नृपं चक्रे कुमारं चापरं तथा ॥ ३५१ ॥ अन्येघुनन्दनवनोद्याने तत्र समाययौ । बहुशिष्यपरीवारः श्रीदत्त इति साधुराट् ॥ ३५२ ॥ उद्यानपालकेनास्य समाख्याते समागमे । ववन्दे परया भक्त्या गत्वा तं जगतीपतिः ॥ ३५३ ॥ उपविश्य यथास्थानं श्रुत्वा · सद्धर्मदेशनाम् । संप्राप्यावसरं सोऽथ पप्रच्छवं कृताञ्जलिः ॥ ३५४ ॥ प्रभो! प्रोक्तः पिशाचाभ्यां यदि नाम ममात्ययः । देवयोन्युदितस्यापि तस्याभूदत्ययः कथम् ॥ ३५५ ॥ सरिराख्यदहो राजन् ! गौरी नाम गृहास्तव । बभूव रूपसम्पन्ना वैश्यवंशसमुद्भवा ॥३५६ ॥ कमदोषेण केनापि जाता दौर्भाग्यदूषिता । संजज्ञे सा तवाऽनिष्टा दृष्टा दृष्टयाऽप्यसौख्यदा ॥ ३५७ ।। ततः सा जातवैराग्या गत्वा पितगृहे निजे। अज्ञानतपसात्मानं शोपयित्वा व्यपद्यत ।। ३५८ ॥ संप्राप्तव्यन्तरीभावा स्मृत्वा तं पूर्वमत्सरम् । अधिष्ठायौरगं कार्य प्रविष्टा सा तवालये ।। ३५९ ॥ कृत्वा पिशाचयो रूपं कुलदेवतया तव | ज्ञापितो देवराजोऽर्थममुं त्वत्क्षेमहेतवे ॥३६०॥ अचिन्त्या मानुपैर्दैवी शक्तिर्यद्यपि वर्त्तते । तथापि पौरुपं तेजः क्षम तल्लङ्घने यतः ॥ ३६१ ।। १ षष्ठीद्विवचनमिदम् । - - -- ॥ ७७॥ - -
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy