SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ यदेवमनुतापः स्यादविचारितकारिणाम् । ततो विचार्य कर्तव्यं कार्य सुन्दरखुद्धिमिः ॥३३५ ॥ कथयित्वा कथामेतां कीर्तिराजे स्थिते सति । प्रातस्तूर्यरखो जज्ञे पेटुर्मङ्गलपाठकाः ॥३३६ ॥ अथोत्याय ययौ कीर्तिराजोराजाऽप्यचिन्तयत्। हन्तैकचित्ताः सर्वेऽमी तद्न जातं ममेप्सितम् ॥ ३३७॥ दास्यानीतजलेनाथ प्रक्षाल्य वदनं नृपः । कृत्वा सुवेषमास्थानमण्डपे निपसाद सः ॥३३८॥ अत्रान्तरेऽलकन्यस्तकरद्वन्द्वः प्रसन्नवाक । एत्य विज्ञापयामास देवराजो महीपतिम् ॥३३९ ॥ यदि देवोऽनुजानाति किञ्चिद् विज्ञापयामि तत् । क्रुद्धेनाऽप्यमुनासोऽथाऽनुज्ञातः संज्ञया भ्रवः॥ ३४०॥ ततः पिशाचवचनश्रवणाऽऽदिकथाऽखिला | राज्ञोऽने कथिता तेन भयविस्मयकारिणी ॥३४१॥ आकृष्य वासभवनाद् द्विखण्डं तदहेवपुः। अदर्शि चास्य विद्वेपविपनाशनमेपजम् ॥३४२॥ राजाऽथ चिन्तयामास हा ! अनेन महात्मना । मम जीवितरक्षार्थ विहितं पश्य कीदृशम् ॥३४३ ।। असमीक्षितकारित्वात् परोपकृतिकार्यपि । विघातयितुमारब्धो मयाऽसावपि पाप्मना ।। ३४४॥ एतैश्च वत्सराजाद्यैः कथाऽऽख्यानविचक्षणः । तत् साधु विदधे यद् न निहतोऽयं नरोत्तमः ॥ ३४५॥ ऊचे च स्वपरीवारमेते सर्वगुणास्पदम् । कुलदेवतया दत्ता अपुत्रस्य सुता मम ॥ ३४६ ॥ ततोऽहं स्थापयिष्यामि देवराज महीपतिम् । कुमारं वत्सराजं च ग्रहीष्यामि व्रतं स्वयम् ॥ ३४७॥ एवमाकर्ण्य लोकेन प्रोक्तं देव ! प्रतीक्ष्यताम् । कालं कञ्चित् ततश्चान्त्यकाले कुर्या इदं खलु ॥ ३४८॥ manand
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy