SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ राजन् ! रात्रेविनोदाय कथितेयं कथा मया । कथायाः परमार्थस्तु श्लोकयुग्मेन कथ्यते ॥ २९४ ।। शान्तिनावचरित्रम् ॥ ७५॥ चतुर्थः प्रस्ताव: तद्यथा मक्तः सर्वगुणैर्युक्तो हतो येन शुभङ्करः । कृतघ्नो भूतले शत्रुदमनात कोऽपि नापरः ॥२९५ ॥ अकारणोत्पन्नरोपे हिंसा निदोपमानुपे । कार्या नरेण नो शत्रुदमनेन कृता यथा ॥२९६॥ आख्याय सत्कथामेतां गते यामे तृतीयके । रात्रेवुर्लभराजोऽपि समुत्थाय ययौ गृहम् ॥२९७ ॥ तत्रासीनमयो कीर्तिराज भूपतिरब्रवीत् । कार्यमेकं मामकीनं त्वया सेत्स्यति किन वा? ॥ २९८ ।। सोऽप्यवोचत न चेत् कार्य साधयिष्यामि ते विभो! तत् त्वामाराधयिष्यामि चलस्नेहमहं कथम् ॥ २९९ ॥ भ्रातुः शीर्षमानयेति भणितः सोऽथ भूभुजा । गतप्रत्यागतं कृत्वा किश्चिदूचे सुधीरिदम् ॥३०॥ शर्वर्याः प्रान्तकालत्वात् सर्वे जाग्रति यामिकाः। पुनः प्रस्तावे देवायं तवाऽऽदेशो विधास्यते ॥ ३०१॥ सोऽपि प्रस्तावनां कृत्वाऽनुज्ञातः पृथिवीभुजा। कथां कथयति स्मैनां तस्य मन्युविनाशिनीम् ॥ ३०२॥ इहाभूद् भरतक्षेत्रे महापुरपुरे नृपः । शत्रुञ्जयाभिधस्तस्य प्रियङ्करिति वल्लभा ॥३०३॥ अन्यदा नैगमः कश्चिद् जात्यमेकं तुरङ्गमम् । भूपतेढौँकयामास तस्य देशान्तरागतः ॥ ३०४ ॥ पृष्ठे पर्याणमाधाय तत्राऽऽरुह्य महीपतिः । वाहयामास वाहं तं गतिविज्ञानहेतवे ॥३०५॥ वेगात प्रधाविते तस्मिन् तस्य शिक्षाविपर्ययम् । सामन्तानां समाचख्यौ स वणिग् पूर्व विस्मृतम् ॥ ३०६॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy