SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ शान्तिनाथचरित्रम् ॥७४॥ चतुर्थः प्रस्ताव सोऽवदद् भवतां देव ! देहापायाभिशङ्कया । मया व्यापादितोऽयं हि न तु स्वोत्कर्षकाम्यया ॥ २६७ ॥ अन्यच निहतः स्वामिप्रभावेणैव केशरी । अन्यथा शृणिमात्रेण कथमस्य निकृन्तनम् ॥२६८॥ कथयिष्यामि सैन्यानामग्रे यत् स्वामिना स्वयम् । हर्यक्षो निहतस्तव त्वं माप्रसाद व्यधामयि ॥ २६९ ॥ इदं कार्य तु प्रत्यक्षमावयोरेव तत् प्रभो ।। चतुष्कर्णस्य मन्त्रस्य नास्य भेदो भविष्यति ॥२७॥ राजा प्रोवाच योष मन्त्रो भावी स्फुटः सखे । तदा मे भविता लोकेप्लीकवादिकलङ्कता ॥ २७१ ॥ शुभङ्करोऽववीत किं न श्रुतमेतत् त्वया प्रभो ! । साधोः समर्पित गुह्यं सह तेनैव दह्यते ॥ २७२ ॥ ततस्तौ सिंहमादाय सैन्यमध्ये समागतौ । इति व्यावर्णयामास तदने च बटुः प्रभुम् ॥२७३ ॥ त्यजन्ति यस्य नादेन मदं मत्तद्विपा अपि । लीलया निहतः सोऽद्य स्वामिना नखरायुधः ॥२७४ ॥ ततश्च पत्तिसामन्ताः संजातामितसमदाः । शिरांसि धूनयन्तस्ते प्राशंसन् पौरुष प्रभोः ॥२७५ ॥ भर्तुर्जयमहे तेऽथ संप्राप्ता नगरान्तरे । सुवर्धापनकं चक्रुस्तूर्यनादपुरस्सरम् ॥२७६॥ महोत्सवमये तस्मिन्नतीते लघुवासरे । विसृज्याऽऽस्थानलोकं राट् ययौ देव्या निकेतनम् ॥ २७७॥ पप्रच्छ देवी नाथाय पुरे किं कश्चिदुत्सवः । वर्तते तूर्यनिघोषो यदयं श्रूयते महान् यानवापा यदय श्रूयत महान् ॥ २७८ ।। राजा प्रोवाच हे देवि ! यन्मया निहतो हरिः । ततोऽयं विहितो भूपैर्वपिनमहोत्सवः ॥२७९ ॥ १ अपायो नाशः । २ सिंहः । ३ सिंहः । मा ७४॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy