________________
एवं तेषु प्रकुर्वत्सु प्रसुप्तेष्वन्यदा निधि । तस्य दैववशेनैक पतति स्म फलं भुवि ॥२२६ ॥ तत् प्रभाते महीभर्तुः प्रहृष्टैस्तैः समर्पितम् । देयं पात्राय कस्मैचिदिदं चिन्तयति स्म सः ॥ २२७ ।। आकार्य देवशर्माणं चतुर्वेदधरं द्विजम् । अमृताम्रफलं तस्मै भक्तिपूर्व ददौ नृपः ॥२२८॥ सोऽप्यात्ममन्दिरे गत्वा पूजयित्वा च देवताम् । तत्फलं भक्षयामास पञ्चत्वं समवाप च ॥ २२९॥ केनचित् कथितं राज्ञो देवशर्माऽद्य स द्विजः। अमृताम्रफले तस्मिन् भक्षिते संस्थितः प्रभो ! ॥ २३०॥ सखेदोऽथ नृपः स्माहाहो ! अकार्य कृतं मया । पातकं ब्रह्महत्याया धर्मभ्रान्त्या यदर्जितम् ॥ २३१ ॥ नूनमेप विपस्याम्रः प्रपञ्च प्रविधाय तम् । मम प्राणविनाशाय केनचित् प्रेषितोरिणा ॥२३२॥ ततोऽयं स्त्रयमुप्तोऽपि पालितोऽपि प्रयत्नतः । बहुप्राणिक्ष यङ्कारी छिद्यतां विषपादपः ॥२३३ ।। राजादिष्टनास्तीक्ष्णकुठारस्तरुपुङ्गवम् । मूलादपि तमाच्छिद्य पातयन्ति स्म भूतले ॥२३४॥ निर्विण्णा जीवितस्याथ कुष्टरोगार्दिता जनाः। धावितास्तत् समाकर्ण्य विपाऽऽम्रतरुच्छेदनम् ॥ २३५॥ कश्चित् पक्कमपक्कं वार्द्धपक्कं चाऽपरस्तथा । तत्फलं भक्षयामास सुखमृत्युविधित्सया ॥२३६॥ तस्मिन् चूतफले चाऽत्ते गतरोगव्यथाः क्षणात् । अभूवंस्ते जनाः सर्वेऽप्यमृताशनसन्निभाः ॥ २३७ ॥ दृष्ट्वा तान् विस्मयाऽऽपन्नः चिन्तयामास भूपतिः। अहो! असदृशफलं फलमस्य तरोः कथम् ॥ २३८ ॥ १मृतः।
१३