SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १४७ ॥ ॥ ॥ उवाच सार्थवाहोऽपि यद्यप्येवं तथाऽपि भोः ! । सतां नार्पयितुं युक्तः कदाऽपि शरणाऽऽगतः ॥ १४४ ॥ आरक्षका वदन्ति स्म राजादेशकरा वयम् । सोऽवदत् तर्हि राजानं गत्वा विज्ञपयाम्यहम् ॥ १४५ ॥ एवमस्त्विति तैरुक्ते सोऽगात् नृपतिसन्निधौ । तस्य रत्नाऽऽवलीं चैकां महामूल्यामढौकयत् ॥ १४६ ॥ राज्ञा सोऽभाणि सार्थेश ! कुत आगमनं तव । तेनापि कथितस्तस्य वृत्तान्तश्च सविस्तरः ॥ इति चोक्तं महाराज ! लब्धमाभरणं यदि । तदसौ मुच्यतां मेऽद्य तस्करः शरणागतः राजा प्रोवाच लब्धेऽपि भूपणे वधमर्हति । यद्यप्येष तथाऽप्यद्य मुक्तः प्रार्थनया तव महाप्रसाद इत्युक्त्वा निजस्थानमगादसौ । आरक्षकनरास्ते च राजदूतेन वारिताः भोजनं कारयित्वाऽथ तस्करोऽप्यात्मना सह । इत्युक्तो धनदत्तेन मैवं कार्षीद् भवान् पुनः सोऽवदद् विनिवृत्तोऽस्मि चौर्यात् सार्थेश ! संप्रति । करिष्यामि व्रतं किञ्चिद्धितं स्वस्य प्रियाय अन्यच्च साधुना दत्तो भूतनिग्रहकारकः । मन्त्रः सप्रत्ययो मेऽस्ति ग्राह्योऽवश्यमसौ त्वया जगृहे प्रार्थनाभङ्गभीरुणा सार्थपेन सः । तस्करोऽपि तमापृच्छय ययौ स्वेप्सितहेतवे दत्तं प्रयाणकं शीघ्रं धनदत्तेन चाग्रतः । गच्छन् क्रमेण संप्राप्तोऽटवीं कादम्बरीमसौ एकस्याश्च महानद्या रोधस्यावासितोऽथ सः । तत्र प्रकर्तुमारब्धा सामग्री भोजनादिका अत्रान्तरे च सार्थेशो व्याधमेकं ददर्श सः । कृष्णरक्तेक्षणं चापबाणव्यापृतपाणिकम् ते ॥ ॥ १५० ॥ १५१ ॥ १५२ ॥ ॥ १५३ ॥ ॥ १५४ ॥ १४८ ॥ १४९ ॥ ॥ ॥ १५५ ॥ ॥ १५६ ॥ ॥ १५७ ॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy