________________
शान्तिना
चतुर्थः
प्रस्ताना
थचरित्रम् ॥ ७ ॥
सारमेयसमायुक्तं रुदन्तं च सुदुःखितम् । किमेतदिति तं दृष्ट्वा पप्रच्छ च कृताग्रहः ॥१५८ ॥ सोऽवोचत् शृणु भो भद्र ! मम दुःखस्य कारणम् । इहाऽस्ति पर्वते भिल्लपल्ली गिरिकुडङ्गिका ॥ १५९ ॥ तत्र पल्लीपतिः शूरो विख्यातः सर्वभूभुजाम् । सिंहचण्डोऽभिधानेन प्रचण्डो रणकर्मणि ॥१६॥ तस्य सिंहवती भार्या जीवितादपि वल्लभा । वर्तते प्राणसन्देहे सा भूतग्रहपीडया ॥१६१॥ पल्लिनाथोऽपि नः स्वामी वियोगेऽस्या मरिष्यति । एतेन कारणेनाहं दुःखितो भद्र! रोदिमि ॥ १६२॥ सार्थवाहस्ततोऽवादीदेकवारमहं दृशा । पश्यामि तां यतो मेऽस्ति मन्त्रो भूतग्रहापहः ॥१६३ ॥ तेनाऽथ पल्लिनाथस्याऽचख्ये तत्सोऽपि सत्वरम् । प्रेयसी तां समादाय तत्समीपमुपाययौ ॥१६४ ॥ विलोक्य सार्थवाहोऽपि कृत्वा च सकला(ला)कृतिम् । मन्त्रजापविधानेन निर्दोषां विचकार ताम् ॥ १६५॥ जीवदानोपकारं तं कृत्वा पल्लीपतिः स तु । विसृष्टः सार्थवाहेन स्वपल्ली पुनरप्यगात् ॥१६६ ।। चलितो धनदत्तोऽपि ततः स्थानात शनैः शनैः । वेलाकूलगतं पाप गम्भीराख्यं पुरं वरम् ॥ १६७॥ कृत्वा निवेशं सार्थस्य तस्थुपस्तत्र पत्तने । न मनोवाञ्छितो लाभो बभूवाऽस्य कथञ्चन ॥१६८॥ ततोऽसौ चिन्तयामास पाश्चात्यग्रहरे निशः । अर्जयिष्याम्यहं वित्तमागाह्य सरितां पतिम् ॥१६९ ॥ इति चिन्तापरस्यास्य विगता सा विभावरी । ततश्चोत्याय शय्याया वेलाकूलमियाय सा ॥ १७० ॥ रङ्गन्तरङ्गमालाभिरभ्युत्थान इवोत्थितम् । विधिज्ञः पूजयामास सार्थवाहः सरित्पतिम् ॥१७१॥