SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ तं दृष्ट्वा कश्चिदित्यूचे धन्योऽसौ श्रेष्ठिनन्दनः । य एवंविधसामग्र्या स्वेच्छया विलसत्यहो ॥ ११८॥ सोऽन्येन भणितो मुग्ध ! किमस्य त्वं प्रशंससि। यः पित्रोपार्जितां लक्ष्मी भुङ्क्तेकापुरुषक्रियः॥ ११९ ॥ प्रशंसायाः स योग्योञ यो द्रव्योपार्जने रतः । त्यागभोगपरो यश्च लोकमध्ये विजृम्भते ॥१२० ॥ तच्छ्रुत्वा श्रेष्ठिपुत्रोऽसौ चिन्तयामास चेतसि । अमुनेापरेणाऽपि जल्पितं मे हितं वचः ॥ १२१ ॥ ततो देशान्तरे गत्वा समुपायं धन धनम् । तत् सर्व साधयिष्यामि यदनेन विभापितम् ॥ १२२ ॥ स्ववितर्कोऽथ मित्राणामग्रे तेन निवेदितः। प्रशंसितश्च तैस्तस्याऽभिप्रायः प्रियवादिभिः ॥१२३ ॥ लगित्वा पादयोः सोऽथ जगाद जनकं मया । अर्थार्जनकृते गम्यं परदेशे त्वदाज्ञया ॥१२४॥ वज्राऽऽहत इस श्रेष्ठी दुःखितस्तमभापत । अर्थस्ते विद्यते वत्स ! त्यागभोगक्षमो बहुः ॥१२५ ॥ तेनैव साधनीयानि सर्वकार्याणि निश्चितम् । प्राणसन्देहकरणे गम्यं देशान्तरे न हि ॥१२६ ॥ पुनरप्यवदत् पुत्रस्तात ! लक्ष्मीस्त्वयाऽर्जिता । जननीव न मे भोक्तं युज्यते शैशवाहते ॥१२७॥ अत्याग्रहपरं ज्ञात्वा विससर्ज पिताऽपि तम् । ततोऽसौ यानसामग्रीमखिलां प्रगुणां व्यधात् ।। १२८ ॥ ससहायः सपाथेयः समादाय क्रयाणकम् । विदधे सार्थसंयुक्तः स शुमेऽति प्रयाणकम् ॥१२९ ॥ कृत्वाऽनुगमनं तस्य किञ्चिदध्वानमञ्जसा । श्रेष्ठी निवर्तमानोऽथ शिक्षामेवंविधामदात् ॥१३॥ १ ऋते विना।
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy