________________
अत्रान्तरे पश्यति स्म जातनिद्राक्षयो नृपः । कर व्यापारयन्तं तं देव्या वक्षोरुहोपरि ॥९३ ॥ ततः कोपपरीताको दथ्यौ किं मारयाम्यमुम् । अथवा सबलो नैष शक्यो मारयितुं मया ॥ ९४ ॥ अमुं केनाऽप्युपायेन मारयिष्यामि निश्चितम् । इति सञ्चिन्त्य तस्थौ स सनिद्राऽवस्थया तया ॥ ९५ ।। वादितोऽथादिमो यामोरजन्या घटिकागृहे । वत्सराजं विमुच्याऽऽत्मस्थाने सोऽगानिजालयम्।। ९६॥ जजल्प भूपतिः कोज स्थाने प्राहरिकोऽस्ति भो! । सोऽवद् वत्सराजोऽहं तिष्ठामि तव सेवकः ॥ ९७॥ उवाच भूपतिर्भूयः किमेकं प्रेषणं मम । करिष्यसीति सोऽवोचदादेशं देहिं सत्वरम् ॥ ९८ ॥ राजा प्रोवाच यद्येवं भद्राऽदेशस्तवैप भोः ! । यद् भ्रातुर्देवराजस्य शीर्ष छित्त्वा समानय ॥ ९९ ॥ तथेत्याज्ञां गृहीत्वाऽसौ निर्ययौ वासमन्दिराद । दध्यौ च देवराजस्याऽतीव क्रुद्धो महीपतिः ॥ १० ॥ तनुदारधनद्रोहैः कोपो ह्येवंविधो भवेत् । एकोऽपि सम्भवत्येषां मध्याद् बन्धोर्न मे तनौ ॥ १०१ ॥ यतः- .
, . .. ये भवन्त्युत्तमा लोके स्वप्रकृत्यैव ते ध्रुवम् । अप्यगीकुर्वते मृत्युं प्रपद्यन्ते न चोत्पथम् ॥१०२ ॥ भीता जनापवादस्य ये भवन्ति जितेन्द्रियाः। अकार्य नैव कुर्वन्ति ते महामुनयो यथा ॥१०३ ॥ कुविज्ञातं कुदृष्टं वा कुश्रुतं कुपरीक्षितम् । नूनमेतद् भावि कार्य तत्कर्तव्यं मया कथम् ? ॥ १०४॥