________________
कृतान्तमिव तं द्रं जनविप्लवकारिणम् । करिणं कथयामास पुमान् कोऽपि महीपतेः ॥६००॥ तेनाऽथ प्रेषितं सैन्यं दैन्यं भेजे पुरोऽस्य तत् । स्वयमेव महीपालश्चचाल सबलस्ततः ॥६०१॥ नरसिंहकुमारोऽथ विनिवार्य महीपतिम् । दमनार्थमिभस्याऽस्य प्राचलत्सेनया सह ॥६०२॥ दीर्घो नव करान सप्तोन्नतश्च त्रींश्च विस्तृतः ! दीर्घदन्तकरस्तुच्छपुच्छो मधुपिशङ्गा ॥६०३॥ चत्वारिंशतसमधिकर्लक्षणानां चतुःशतैः । अलङ्कृतः करीन्द्रोऽयं कुमारेण निरीक्षतः ॥६०४॥ (युग्मम्) अभियानापसरणप्रपातोत्पतनादिमिः । बहुधा खेदयित्वा तं वशमानयति स्म सः ॥६०५॥ तस्मिन्नरावणाकारेऽधिरूढं मेनिरे जनाः। कुमारभुतश्रीकं साक्षादिव शचीपतिम् ॥ ६०६॥ तं गजेन्द्रमथालाने नीत्वा कलयति स्म सः। समुत्तीर्य ततस्तस्य स्वयं नीराजनां व्यधात् ॥ ६०७॥ जनकस्य समीपेऽथ स ययौ विनयाञ्चितः । विदधे जनकोऽप्यस्य परिरम्भादिगौरवम् ॥६०८॥ दध्यौ च जगतीभारक्षमोऽयमभवत् सुतः । तदेनं भूपतिं कृत्वा युज्यते मेऽनगारता ततस्तं मन्त्रिसामन्तपौरलोकस्य संमतम् । स्वपदे स्थापयामास सुमुहूर्ते महीपतिः ॥ ६१०॥ जयन्धरगुरोः पार्श्वे सोऽथ दीक्षामुपाददे । न्यायेन पालयामास नरसिंहनृपः क्षमाम् ॥६११॥ अन्येचुर्दस्युनैकेनाऽतिप्रचण्डेन मायिना । अगृह्येणाऽलक्षितेन मुष्यते स्म पुरी सका ॥ ६१२॥ महाजनेन विज्ञप्ते तस्मिन्नर्थे महीभुजा । आरक्षकः समादिष्टश्चौरनिग्रहहेतवे
॥६१३ ॥