________________
शान्तिनाथचरित्रम् ॥५८॥
तृतीयः प्रस्तावः
धर्म दृष्टप्रभाषा सा पप्रच्छाऽथ तदन्तिके । सोऽवदत् साम्प्रतं धर्मदेशना न हि साम्प्रतम् ॥५८८॥ यदि ते धर्मशुश्रूपा ततः काल उपाश्रये । आगत्य विधिना भद्रे ! श्रव्यो धर्मः सविस्तरः ॥ ५८९ ॥ इत्युक्त्वा स्वाऽऽयं गत्वा रागादिरहितोऽथ सः। विधिना पारणं चक्रे स्वाध्यायं च ततः क्षणम् ।। ५९०॥ पुरलोकस्तदा तत्र श्रीदत्ता च समाययौ । प्रणम्य मुनिवर्य तं तत्पुरो निषसाद च ॥५९१॥ धर्मलाभाऽऽशिपं दत्वा स मुनिर्धर्मदेशनाम् । विदधे प्रतिबोधार्थ श्रीदत्ताया जनस्य च ॥५९२ ॥ तयथा
धर्मादर्थस्तथा कामो धर्मान्मोक्षोऽपि जायते । चतुर्वर्गे ततस्तस्य मुख्यता परिकीर्तिता ॥ ५९३ ॥ अयमर्थोऽपरोऽनर्थ इति निश्चयशालिना । भावनीया अस्थिमज्जा धर्मेणैव विवेकिना ॥५९४॥ श्रीदत्ता स्माह भगवन्नस्थिमज्जाऽधिवासना । अमूर्तेन हि धर्मेण कथङ्कार विधीयते ॥५९५॥ ततोऽसौ सुव्रतः साधुस्तस्याः पौरजनस्य च । दृष्टान्तं कथयामासेप्सितार्थस्य निवेदकम् ॥ ५९६॥ आसीदुज्जयिनीपुर्यो जितशत्रुमहीपतिः। तत्प्रिया धारिणी नाम्नी नरसिंहश्च तत्सुतः ॥५९७ ॥ कलाकलापसम्पूर्णः सोऽथ संप्राप्तयौवनः । रम्या द्वात्रिंशतं कन्यास्तातेन परिणायितः ॥५९८॥ शरत्कालेऽन्यदा तत्र पुरेऽरण्यात समाययौ । करी कश्चित् मदोन्मत्तः शङ्खश्वतो नगोन्नतः ॥ ५९९ ॥ १ योग्येत्यर्थः।