SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ दूतं विसृज्य तावेवं मन्त्रयांचक्रतुर्यथा । विद्याबलेन नौ तावत् करोत्येष पराभवम् ॥५१५ ॥ आवामपि ततो विद्याः साधयित्वा स्वचित्तगाः । दर्पमस्य हरिष्याव इति चिन्तयतोस्तयोः ॥ ५१६॥ पूर्वजन्मसाधितास्ताः स्वयमेवोपतस्थिरे । शंसित्वा सिद्धमात्मानं विविशुश्च तदन्तिके ॥५१७ ॥ (युग्मम् ) जातौ विद्याधरौ तौ द्वौ तत्प्रभावान्महौजसौ। विद्यानां चक्रतुश्चार्चा गन्धमाल्यादिवस्तुभिः ।। ५१८ ॥ अत्रान्तरे पुनतः प्राप्तस्तस्य महीपतेः । जजल्पैवमहो मृत्योरतिथी कि भविष्यथः ॥५१९ ॥ येन नाऽद्याऽपि चेट्यौ ते कृते प्रेषयथः प्रभोः । तावूचतुश्च कर्तव्यमवश्यं स्वामिनो हितम् ॥ ५२० ॥ ततस्तदुहितः स्वर्णश्रियो लोभेन तावुभौ । चेट्यो रूपं तयोः कृत्वा जग्मतुस्तत्पुरे द्रुतम् ॥ ५२१ ॥ कलाकौशलमालोक्य भणितौ तौ महीभुजा । युवाभ्यां करणीयो हि विनोदः कनकश्रियः ॥ ५२२ ॥ यथौतुर्दुग्धरक्षायां क्षुद्रान सिद्धानरक्षणे । हृष्टो भवेत् तथाऽभूतां तदादेशे नृपस्य तौ ॥५२३ ॥ सा कामगृहिणीरूपा दृष्टा ताभ्यां सुकन्यका । सर्वोपमादलौधैर्या विधिनेव विनिर्मिता ॥५२४॥ आभाषि भावमधुरैः परिहासमनोहरैः । देशीभापासगभैंश्च प्रियालापैः ससंभ्रमम् ॥५२५॥ पप्रच्छ साऽथ तत्पार्श्वेऽनन्तवीर्यस्वरूपताम् । ततोऽपराजितोऽशंसत तदने तद्गुणानिति ॥५२६॥ १ मार्जारः। २ रतिरूपा । १०
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy