________________
शान्तिनायचरित्रम् ॥५४॥
तृतीयः प्रस्ताव:
दत्ता विद्यास्तेन ताभ्यां विहायोगमनक्षमाः। सवा तत्साधनोपायसामग्री च निवेदिता ॥५०१ ॥ चरीति चिलातीति गीतनाट्यकलाविदौ। तयोर्बभूवतुर्दास्यो विनोदास्पदमद्भुतम् ॥५०२॥ अन्यदा स्थानमासीनौ सन्नाट्यक्रियया तयोः। अभूतां व्याकुलौ यावत् तौ बन्धू रङ्गनिर्भरौ॥ ५०३॥ तावत तत्र ब्रह्मचारी स्वेच्छाचारी कलिप्रियः । सम्यग्दर्शनपुण्यात्मा नारदर्षिरुपाययौ ॥५०४ ॥ नासावभ्युत्थितस्ताभ्यामाक्षिप्ताभ्यां ततश्च सः । रुष्टो व्यचिन्तयदिमौ चेटीनाट्येन मोहितौ ॥ ५०५॥ वित्तो मामपि नाऽऽयातं ततोऽमू चेटिके ध्रुवम् । महामात्रे कलापात्रे हारयिष्यामि केनचित् ॥ ५०६॥ (युग्मम्) विद्याधराधिराजस्य त्रिखण्डविजयेशितुः । प्रतिविष्णोर्दमितारेः सकाशे स ययौ ततः ॥५०७॥ अभ्युत्थानादिसत्कारं कृत्वाऽसावासनस्थितम् । पप्रच्छ तं मुनि दृष्टं पृथिव्यां किञ्चिदभुतम् ॥ ५०८॥ सोऽवदच्छृणु राजेन्द्र ! सुभगायाः पुरो विभोः। अनन्तवीर्यभूपस्य समीपे गतवानहम् ॥५०९॥ तद्भवेरिचिलात्याख्यचेव्यो व्यक्रिया वरा । मयावलोकिता तत्र विश्वविस्मयकारिणी ॥५१॥ किं विद्याभिः प्रचण्डाभिः किं राज्येन किमाज्ञया। ते विना तत्र भूपेति गदित्वा नारदो ययौ ॥ ५११ ॥ तेनाऽथ प्रेषितो दूतः स गत्वा तत्र सत्वरम् । इदमूचे तयोरग्रे स्वस्वामिवलगर्वितः ॥५१२॥ हहो भवन्ति रत्नानि राजगामीनि निश्चितम् । चेट्यौ नाट्यविधायिन्यौ तदेते अर्ग्यतां प्रभोः ॥५१३ ॥ तावेवमूचतुर्भद्र ! युक्तं त्वं ननु जल्पसि । आलोच्यैतत् करिष्यावो याहि त्वं स्वामिनोऽन्तिके ॥ ५१४॥