________________
CERBEXEEEEEXXXXXXXXXXXX
donlSHOKAARABARHakadianta
यथा तौ वणिजौ तद्वद जीवाः संसारिणोऽखिलाः । रत्नद्वीपदेवतेवाविरतिः परिकीर्तिता ॥ ४८८॥ तथाऽविरतिजं दुःखं यथाऽस्याः शबसञ्चयः । शूलागतनरो यद्वद् हितभाषी गुरुस्तथा ॥४८९॥ यथा तेन तत्स्वरूपमनुभूतं निवेदितम् । तथैवाविरते१ःखं गुरुराख्याति देहिनाम् ॥४९ ॥ यथाऽसौ शैलको यक्षस्तारकः संयमस्तथा । समुद्र इस संसारस्तरणीयोऽमुना ध्रुवम् ॥४९१॥ यथा तस्या वशीभूतो विनष्टो जिनरक्षितः । तथैवाऽविरतेर्जन्तुर्वशीभूतो विनश्यति ॥४९२॥ देवतोक्तिनिराकाङ्क्षी यक्षादेशमखण्डयन् । क्षेमेण स्वपुरं प्राप्तो यथाऽसौ जिनपालितः ॥ ४९३ ॥ विरतोऽविरतेस्तद्वच्चारित्रमविराधयन् । निष्कर्मा जायते प्राणी निर्वाणसुखभाजनम् ॥४९४ ॥ तद् भोः । प्रपद्य श्रामण्यं पुनभोंगेषु नो मनः । कर्त्तव्यमिति सन्दिष्टे गुरुणा मुमुदे मुनिः ॥ ४९५ ॥ समर्पिता प्रवर्तिन्यास्ततोऽसौ रत्नमञ्जरी । कृत्वोदारं तपस्तौ द्वौ संप्राप्तौ परमं पदम् ॥४९६॥
॥ इति मित्रानन्दामरदत्तकथानकं समाप्तम् ॥ स्वयंप्रभमुनेर्धर्मोपदेशमतिपावनम् । श्रुत्वैवं प्रतिबुद्धोऽसौ राजा स्तिमितसागरः ॥४९७॥ अनन्तवीर्य भूपत्वे, कुमारत्वेऽपरं सुतम् । विन्यस्यास्य मुनेः पार्श्वे स दीक्षां समुपाददे ॥४९८॥ विराध्य मनसा किञ्चित सोऽन्तकालेऽनगारताम् । मृत्वाऽधो भवने जज्ञे चमरेन्द्रोऽसुराधिपः ॥ ४९९ ॥ इतोऽपराजितानन्तवीर्ययोविभताजुषोः। विद्याधरेण केनापि मैत्री सममजायत ॥५० ॥
3XXXXXBEEEEEEEEERABARREX
t
ion