SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ शान्तिना-10 थचरित्रम् ॥५२॥ तृतीयः प्रस्ताव सोऽप्यवोचत काकन्दीपूर्वास्तव्योऽस्म्यहं वणिक् । भग्नं वारिनिधौयानं वाणिज्येनाऽगतस्य मे ॥ ४४७ ॥ ततहाऽऽगतो रत्नद्वीपदेव्याऽभिकामितः । स्तोकापराधेऽप्यन्येद्युस्तयैव निहितोऽस्म्यहम् ॥ ४४८॥ तयैवं विहताश्चैतेज्नया प्रक्रियया शवाः। तद् युवां कुत आयाती प्राप्तौ चास्या गृहे कथम् ॥ ४४९॥ ततस्तापात्मनो वार्ता निवेद्य तमपृच्छताम् । भद्र ! नौ जीवनोपायः कोऽप्यस्त्येवंस्थिते सति ॥ ४५०॥ सोऽवदच्छलको नाना यक्षः पूर्ववनेऽस्ति भोः! । सोऽश्वरूपधरः पर्वदिनेष्वेवं प्रजल्पति ।। ४५१॥ के रक्षामि नरं कं वा विपदं तार याम्यहम् । तद् गत्वा यक्षराजं तं भक्क्याऽऽराधयतं युवाम् ॥ ४५२ ॥ उद्घोपणायां जातायामावां रक्षेति जल्पतम् । इति शिक्षा तयोर्दत्वा स नरः संस्थितस्ततः ।। ४५३ ॥ पूजयामासतुः पुष्पैर्यक्षं गत्वा च तत्र तौ। आवां निस्तारयेत्याशु तदुक्तौ च जजल्पतुः ॥ ४५४ ॥ उवाच शैलको निस्तारयिष्यामि युवामहम् । एक त्ववहितौ भूत्वा वाक्य संश्रृणुतं मम ।। ४५५॥ युवयोर्गच्छतोः पृष्ठे देवता सा समेष्यति । सानुरागसकामानि जल्पिष्यति वचांस्यपि ॥४५६ ॥ अनुरागं ततस्तस्यां युवां यदि करिष्यथः । ततश्चोल्लालयित्वाऽहं प्रक्षेप्स्यामि महोदधौ ॥ ४५७ ।। यदि वा निरपेक्षौ हि तस्यां ननु भविष्यथः । ततःक्षेमेण चम्पायां प्रापयिष्यामि निश्चितम् ॥ ४५८ ॥ किं वहुना? समाननं न दृष्टयापि तस्याः कार्य कथञ्चन | न भेतव्यं भयं तस्यां दर्शयन्त्यामपि स्फुटम् ॥ ४५९ ॥ ॥ ५२॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy