SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ S 3 BAMBEXXXXXXXXXXXXXXXXXEEEERE कथञ्चिद्विजनत्वाद्वां यद्यत्रोत्पद्यतेऽरतिः। पूर्वदिग्वनखण्डे तद्गन्तव्यमपशङ्कितम् ॥४३४॥ सर्वदाऽवस्थितौ तत्र ग्रीष्मप्रावृट्सुसंज्ञितौ । उभावृतू विनोदाय युवयोरपि भाविनौ ॥४३५॥ न चेत् तत्रापि वां चित्तं रमेत कथमप्यहो। तदोत्तरवनखण्डे गन्तव्यं हि ममाऽऽज्ञया ॥४३६॥ तत्राप्यवस्थितौ नित्यं शरद्धेमन्तनामको । भविष्यत ऋतू नाम स्वाधीनौ युवयोरपि ॥४३७॥ तत्रापि नो रतिश्चेद्वां तत्प्रतीचीवनान्तरे । गम्यं तत्रापि शिशिरवसन्ताख्यावृतू स्थिरौ ॥४३८ ॥ ततः प्रासाद एवात्राऽऽगम्यमौत्सुक्यसम्भवे । दक्षिणस्या वनेमुष्मिन् गन्तव्यं न कथञ्चन ॥ ४३९ ॥ यतस्तत्रासितच्छायो भग्नकायो द्विजिह्वकः। अस्ति दृष्टिवियः सों वेणीभूतोजनिस्त्रियः ॥४४०। एवमुक्त्वा ययावेषा माकन्दितनयौ च तौ। वनखण्डत्रये तस्मिन् गच्छतः स्म पुरोदिते ॥४४१॥ अथाचिन्तयतां चैवं दक्षिणस्या दिशो वने। पौनःपुन्येन गच्छन्तौ तयाऽऽवां वारितौ कथम् ॥ ४४२ ॥ चिन्तयित्वेति साशको यावत्तौ तत्र गच्छतः। प्रविवेश तयोस्तावद् घ्राणे गन्धः सुदुःसहः ॥४४३ ॥ स्थगयित्वोचरीयेण नासारन्ध्रे ततश्च तौ। राशि नरकरङ्काणां वने तस्मिन्नपश्यताम् ॥४४४॥ भयभीतौ विशेषेणाऽऽलोकयन्तावदो वनम् । नरमेकं च तो प्रेक्षाञ्चक्राते शूलिकागतम् ॥४४५॥ जीवन्तं विलपन्तं च दृष्ट्वा पपृच्छतुश्च तम् । कस्त्वं भद्र ! कथं वा तेऽवस्थेयं के त्वमी शवाः॥ ४४६॥ १ नरकलेवराणां. -2 - - - -
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy