________________
शान्तिनाथचरित्रम्
तृतीयः प्रस्तावः
स्फटितं च क्षणादेव विधुरेऽधीरचित्तवत् । विपन्नस्तद्गतो लोकस्तौ यानाधिपती पुनः ॥४२१॥ लब्ध्वा फलहक किञ्चित् तद् गाढं परिरम्य च । तीरमासेदतू रत्नद्वीपस्य दिवसैनिभिः ॥४२२ ॥ (युग्मम्) नालिकेरीफलेस्तत्र प्राणयात्रां विधाय तौ । तत्तैलाभ्यङ्गयोगेन रूढदेहौ बभूवतः
॥४२३॥ ततस्तत्राऽऽययौ रत्नद्वीपदेवीति देवता। नृशंसा निघृणा पाणौ कृपाण विभ्रती शितम् ॥४२४ ॥ ऊचे चैवमहो सार्द्ध मया विपयसेवनाम् । चेद् युवां कुरुथः प्राणकुशलं वां ततो भवेत् ॥४२५ ॥ अन्यथाऽनेन खड्गेन शिर छेत्स्यामि निश्चितम् । इत्युक्ते भयभीताङ्गौ तावप्येवं जजल्पतुः ॥ ४२६ ॥ भिन्नप्रवहणावावां देवि ! त्वां शरणाऽऽश्रितौ। यदादिशसि किश्चित्त्वं कर्तास्वस्तदसंशयम् ॥ ४२७ ॥ प्रासादमात्मनो नीत्वा तौ ततः प्रीतमानसा । अपजह तयोरङ्गात् पुद्गलानशुभानसौ ॥४२८॥ बुभुजेऽथ समं ताम्यां स्वैरं वैपयिकं सुखम् । ताभ्यां सुधाफलाहारं ददौ च प्रतिवासरम् ॥४२९ ॥ एवं च तस्थुपोर्यावद् गताः कत्यपि वासराः । तयोस्तत्राऽन्यदा तावत् तयैवं भणिताविमौ ॥ ४३० ॥ सुस्थितेनाऽहमादिष्टाधिष्ठात्रा लवणोदधेः। यथा त्रिः सप्तकृत्वस्त्वं भद्रे ! शोधय चारिधिम् ॥ ४३१ ॥ तृणकाष्ठाशुचिप्रायं भवेद् यत् तत्र किञ्चन । सर्व नीत्वा तदेकान्ते परित्याज्यं ममाऽऽज्ञया ॥ ४३२॥ ततस्तत्र मया गम्यं युवामत्रैव तिष्ठतम् । कुर्वन्तौ सत्फलैरेभिः प्राणवृत्तिं शुभाशयौ ॥४३३॥
॥५१॥