SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ शान्तिनाथचरित्रम् ॥५०॥ तृतीयः प्रस्ताव इत्थं विच्छिन्नसन्देहोऽमरदत्तो महीपतिः । सूरिं नत्वा स्वसदनमाययौ सपरिग्रहः ॥३९८॥ अज्ञानमोहितप्राणिप्रतिबोधविधौ रतः । धर्मघोपमुनीन्द्रोऽपि विजहार महीतले ॥३९९ ॥ समये रत्नमञ्जर्या देव्याः सूनुरजायत । तदेव सममूत् तस्य नाम यद् गुरुणोदितम् ॥४०॥ धात्रीभिः पालितः सोऽथ समतिक्रान्तशैशवः । समधीतकलो विश्वम्भराधारक्षमोऽभवत् ॥४०१॥ स एव सुगुरुस्तत्र पुनरन्येमुराऽऽययौ । उद्यानपालकस्तस्याऽगति राज्ञे शशंस च ॥४०२ ॥ निवेश्य तनयं राज्ये ततोऽसौ प्रियया सह । गुरूणामन्तिके तेषां परिव्रज्यामुपाददे ॥४०३ ॥ राज्ञः सपरिवारस्य दचा दीक्षामथो गुरुः । तस्याऽन्येषां च बोधार्थ शिक्षामेवंविधां ददौ ॥४०४ ॥ भवाम्भोधिपतज्जन्तुनिस्तारणतरी क्षमा । कथञ्चित् पुण्ययोगेन प्रव्रज्या प्राप्यतेऽङ्गिमिः ॥४०५॥ प्रव्रज्यां प्रतिपद्यापि स्युर्यके विषयैषिणः । जिनरक्षितवद् घोरे ते पतन्ति भवार्णवे ॥४०६॥ स्युर्यके निरपेक्षास्तु विषयेष्वर्थिता अपि । जिनपालितवत्तेन भवन्ति सुखभाजिनः ॥४०७॥ पृष्टो राजर्षिणा तेन ततः कथयति स्म सः । सूरिः सिद्धान्तकथितां भविष्यन्तीं तयोः कथाम् ॥ ४०८॥ चम्पापुर्या प्रसिद्धायां जितशत्रुरभून्नृपः । बभूव धारिणी नाम्नी तत्प्रिया रूपशालिनी ॥ ४०९ ॥ अभवत्तत्र माकन्दी नाम्ना श्रेष्ठी महाधनः । प्रशान्तः सरलस्त्यागी बन्धुकैरवचंद्रमाः ॥४१० ॥ BASSSSSSSSS ॥५०॥
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy