SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ अत्रान्तरेऽपतत् तेषां त्रयाणामुपरि क्षणात् । क्षणिका तेन पञ्चत्वं सममेव गता हि ते ॥३८५ ॥ सौधर्मकल्पे देवत्वं प्राप्ताश्च प्रीतिनिर्भराः । ततः क्षेमङ्करश्युत्ता त्वमभूर्जगतीपते ! ॥३८६ ॥ जीवः सत्यश्रियः सेयं सञ्जाता रत्नमञ्जरी । जीवः कर्मकरस्याभूत् मित्रानन्दः सखा तव ॥३८७॥ बद्धं यद् येन दुष्कर्म वचसा पूर्वजन्मनि । तत्तस्योपस्थितं राजन् ! युष्माकमिह जन्मनि ॥ ३८८॥ ततः पूर्वभवे राजन् ! यद्धसद्भिर्निबध्यते । रुदद्भिर्वेद्यतेऽवश्यं तत्कर्मेह शरीरिभिः ॥३८९ ॥ तन्निशम्य महीपोऽसौ मुमूर्छ प्रियया सह । तत्पूर्वविहितं सर्व जातिमृत्या विवेद च ॥३९ ॥ ऊचे च यत्प्रभो ! प्रोक्तं युष्माभिर्ज्ञानभास्करैः । तज्जातिस्मरणेनाऽभूत् प्रत्यक्षमधुनाऽपि मे॥ ३९१ ॥ तदेतस्यामवस्थायां विद्यते यस्य योग्यता । कृत्वा प्रसाद युष्माभिः स धर्मों मम कथ्यताम् ॥ ३९२ ॥ गुरुः प्रोवाच सञ्जाते तनये ते महीपते ।। प्रव्रज्या भवितेदानी गृहिधर्मस्तवोचितः ॥३९३ ॥ ततो द्वादशभेदेन गृहीधर्मो विवेकिना । प्रपन्नोऽमरदत्तेन भूभुजा प्रियया सह ॥३९४॥ पुनः पप्रच्छ भूपालो यत्तदा तेन जल्पितम् । मृतकेन तदाख्याहि कारणं विस्मयोच मे ॥३९५॥ गुरुणोक्तमसौपान्थः शम्बाग्राही महीपते ! । मृत्वा भ्रान्त्वा भवंतत्र वटेऽभूद् व्यन्तरः क्रमात् ॥ ३९६॥ मित्रानन्दं समुद्वीक्ष्य स्मृत्वा वैरंच तत्कृतम् । अवतीर्य शवस्यास्ये तेन तजल्पितं वचः॥३९७ ॥ १ विद्युत्.
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy